स्पष्टाधिकारः
भूपृष्ठनिष्ठनरदृष्टिविकारमास्यं स्पष्टत्वमेव खचरस्य न तद्यथार्थम्।
यद्दृष्टिबन्धकरणेन्द्रियजालवत्तत् तुङ्गस्य कर्षणममुत्र विकारहेतुः ॥ ४ ॥
स्पष्टभुक्तस्तु सिद्धयर्थं मन्दस्पष्टा च मध्यमा । |
इदानीमधज्याकरणं ताश्वाह ।
अर्धज्याग्रे खेचरो मध्यसूत्रात् तिर्यक्संस्थो जायते येन तेनर ।
अर्धज्याभिः कर्म सर्व' ग्रहाणामर्धज्यैव ज्याभिधानात्र वेद्या ॥ २ ॥
तत्त्वाश्विनो नन्दसमुद्रवेदाश्चन्द्राद्रिषट्का गगनाङ्कनागाः ।
पश्चाभ्ररुद्रास्तिथिविश्वतुल्या अाद्यैर्निरुक्ता नखबाणचन्द्राः ।। ३ ।।
नन्दावनीशैलीभुवो दिगङ्कचन्द्रा हुताशग्रहपूर्णदस्राः ।
तुरङ्गषट्काकृतयः कुरामसिद्धाः शराष्टेषुयमाः क्रमेण ॥ ४ ॥
गजाश्विभान्यङ्कशराष्टदस्रास्तुरङ्गसतग्रहलोचनानि3 ।
अम्भोधिकुम्भ्यभ्रगुणास्तुरङ्गशैलेन्दुरामा रसभूतदन्ताः ।। ५ ।।
मीनाजादावतिशयचला गोघटादौ च शीघ्रा,
शैत्रे केन्द्र मिथुनमकरादौ च नैसर्गिकी स्यात् ।
कर्काद्यर्धे भवति धनुषश्चान्त्यखण्डे च मन्दा,
चापाद्यर्धे शशिभशकलेऽन्त्येति मन्दा प्रदिष्टा । ।
सि० शे० ३ अ० ६० श्लो० ।
१. महान्मानमिति ग पु० ।
२• अत्र श्रीपतिः-‘अर्धज्याग्रे सन्निविष्टं ग्रहेन्द्रं कक्षावृत्तान्तः स्थितो वीक्षते हि । दृष्टा
यस्माज्ज्यादलैरेव तस्मात् कर्म प्रोक्त न ह्यखण्डज्यकामि:' ।
( सिs शे० १६ अ० १८ श्लो०)
३. ‘‘ततः परं नागहयाङ्क बाहवः इति धीवृद्धिदे ।
“वस्वद्युङ्कयमास्तथा' इति सूर्यसिद्धान्ते ।
किन्तु ‘तुरङ्गसप्तग्रहलोचनानि' इति पाठः साधुः ।