पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/147

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१०२ 
सिद्धान्तशिरोमणौ ग्रहगणिते


 कुदन्तलोका द्वितुरज्ञदेवा गोऽभ्राब्धिलोकाः कुगुणाब्धिरामाः ।
 भुजङ्गलोकाब्धिगुणाः क्रमज्या' अथोत्क्रमज्या मुनयोऽङ्कदस्राः ।।६।।
 रसर्तवो भूधरभूमिचन्द्रा द्वयप्टेन्दवो भूरसलोचनानि ।
 कृतेषुरामाः शशिषट्कवेदा नन्दाद्रिबाणा गगनेन्दुशैलाः ॥ ७ ॥
 गुणेषुनागा नगखाभ्रचन्द्राः कुशैलरुद्राः शरवेदविश्वे ।
 भुजङ्गनेत्रषुभुवो नवेन्दुससेन्दवोऽथो धृतिनन्दचन्द्राः ॥ ८ ॥
 गोऽटाङ्दस्रा दहनेन्दुदन्ता नागाग्निवेदाज्यभुजख्रिभज्या ॥ ९ ॥
 स्याद्वयासखण्डं खलु खण्डकानि प्रोक्तानि जीवा विवराणि तज्ज्ञैः ।

 वा० भा -इह हि स्पष्टीकरणप्रभूति सर्व कर्मार्धज्याभिः प्रतिपाद्यते । यतो ग्रहवलये
कोऽप्यवधिभूतः प्रदेशो मध्यशब्देनोच्यते । तस्मान्मध्याद्वलयगभंगामिसूत्रं मध्यसूत्रमित्यु
च्यते । तस्मान्मध्यसूत्रात् तिर्यकस्थो ग्रहो वलयेऽर्धज्याग्रे भवति । अतोऽर्धज्याभिः सर्वं कर्म ।
तत्र भगणकलाङ्कितवृत्तचतुर्थाश ईदृशान्येव चतुविशतिज्र्यार्धानि भवन्ति । अत एव सूर्यसिद्धान्ता.
र्यभटतन्त्रेष्वेतान्येव । एषामुपपत्तिर्गोलेऽनेकधा कथिता । तेषां ज्यार्धानामन्तराणि ज्याखण्डसंज्ञानि ।
 क्रमज्याः २२५ ।। ४४६ ।। ६७१ ।। ८९० || ११०५ ॥ १३१५ ॥ १५२० ।। १७१९ ॥
१९१० ॥ २०९३ ।। २२६७ ॥ २४३१ ॥ २५.८५ ॥ २७२८ · ॥ २८५९ ॥ २९७७ || ३०८४ ।
३१७७ ॥ ३२५६ ॥ ३३२१ ॥ ३३७२ ॥ ३४०९ ॥ ३४३१ ॥ ३४३८ ॥
 अन्तराणि २२४ ।। २२२ ।। २१९ || २१५ || २१० || २०५ । १९९ ॥ १९१ || १८३ ।।
१७४ ॥ १६४ ॥ १५४ ॥ १४३ ॥ १३१ ॥ ११८ ॥ १०७ ॥ ९३ ॥ ७९ । ६५ ॥ ५१ ॥ ३७
॥ २२ ॥ ७ ॥
 उत्क्रमज्याः ७ ।। २९ ॥ ६६ ॥ ११७ ॥ १८२ ॥ २६१ ।। ३५४ ।। ४६१ || ५७९ ।।
७१० || ८५३ || १००७ ॥ ११७ १ ॥ १३४५ । १५२८ || १७१९ । १९१८ २१२३ ॥ २३३३ ॥
२५.४८ || २७६७ || २९८९ || ३२१३ || ३४३८ ।।
 अन्तराणि २२' ।। ३७ ॥ ५१ ।। ६५ ॥ ७९ ॥ ९३ ॥ १०७ ।। ११८ ।। १३१ ।। १४३ ।।


१. अत्र बापूदेवोक्तः प्रकारः ।
 ज्यावर्गात् खरसाक्षाभ्रबाणोनात् पूर्वजीवया ।
 अवाप्तमग्रजीवा स्यादग्राप्तं पूर्वशिब्जिनी ।
 एवमासन्नजीवाभ्यां गजाग्न्यब्धिगुर्णर्मिते ।
 व्यासार्धेऽत्रावशिष्टज्याः सिध्यन्ति लघुकर्मणा ॥
यद्वी  त्र्यब्धिघ्नमौव्या अयुतेन लब्धं द्विघ्नज्यकायाः प्रविशोध्य शेषम् ।
 विश्लिष्य पूर्वज्यकयाग्रजीवा वेद्याग्रमौव्या खलु पूर्वजीवा ॥