वा० वा०--अथ लघुजीवायां भोग्यखण्डस्फुटीकरणमाह-‘यातैष्ययोः खण्ड
कयोविशेषःइति । अत्र वासना।
बृहज्ज्याभिर्दशांशानां जीवा कार्या विचक्षणैः।
व्यासाद्धे त्रिज्ययेयं चेत्तदा खाडैः कियन्मिता ॥
रूपाश्विनोरसांशोनाः ॥ २० ॥ ५० ॥ प्रथमं ज्याद्धेमुच्यते ।
त्रिभज्यातुल्यया कोटिजीवया प्रथमं यदि ।
भोग्यखण्डं ॥ २० ॥ ५० ॥ स्फुटं लभ्यमिष्टकोटिज्यया च किम् ।
एवं दशदशांशानां भोग्यखडं प्रसाध्यते ।
यातैष्यखण्डयोगार्द्धतुल्यं भोग्यं प्रजायते ।
अत उक्तं भाष्यकृता खण्डं भवितुमर्हति ।
यातैष्यखण्डयोगाङ्गं खण्डसन्धाविति स्फुटम् ।
शेषं त्रराशिकाद्यन्तु भाष्ये स्पष्टतरं यतः ।
तन्नोक्तं भाष्यकठिन्यव्याख्यामात्र मयोच्यते ।
क्रमेण दशदशांशानां कोटिजीवाः ॥ ११८ ॥ ११३ ॥ १०४ ॥ ९२॥
॥ ७७ ॥ ६० ॥ ४१ ॥ २१ ॥ आभ्यः पूर्वोक्त्या सिद्धानि स्पष्टभोग्यखण्डानि आचार्येण
स्वल्पान्सरत्वाद्यातैष्यखण्डयोगार्द्धतुल्यान्येव स्वीकृतानि प्रथमखण्डश्च रूपादिवमितं
स्वीकृतमित्यदोषः ।
२० | १९ | १८ | १६ | १३ | १० | ७ | ३
३९ ॥ ३५ ॥ ३ ॥ ३९ | २५ | २५ | ७ | ३१
स्पष्टखण्डस्य प्रयोजनमुक्तं ‘भोग्यात् स्फुटाज्ज्यात्र परिस्फुटेति।।
ब्रह्मतुल्ये स्पष्टगतिसाधने चावश्यकमिदम् ।
यातैष्ययोः खण्डकयोरित्यादिराचार्योक्तः स्फुटभोग्यखण्डसाधनप्रकार उद्दिशृशानां दशभ्योऽनल्पत्वे
बोध्य इति निश्चिन्वन्ति ।
अत्रास्माभिरुच्यते । यातयातस्तत्पूर्वीज्यायां शोधितायां यच्छिष्यते तदेव यातखण्डं
नाम अतो दशभ्योऽल्पानामंशानां ज्यासाधने गतज्या पूर्णम्० तत्पूर्वीज्या च रूपाविव २१ मितैव
किन्तु सा चतुर्थपदस्थत्वादृणम् अस्यां ३१ गतज्यातः० शोधितायां संशोध्यमानमृणं स्वं स्यादि
त्यनेन जातं शेषमेकविंशतिर्धनम् २१ इदमेवात्र गतखण्डम् । अतः पञ्चानामंशानां ज्यासाधने
स्पष्टभोग्यार्थं यातैष्ययोः खण्डयोः २१, २१ अनयोविशेषः० शेषांशनिघ्नः ० नखळू ० अनेनोनं
यातैष्यखण्डयोर्योगाञ्च २१, इदमेव स्फुटं भोग्यखण्डम् । अनेन निघ्नाः शेषांशा: १०५
खेन्दुभिऑक्ताः १०३० इदमालं यातखण्डंबयेन ० युतम् १०३० जाता पवनामंशानां लघुज्येति
सवं निरवद्यम् ।
१. ३९ इति ग पु० ।