अथ छेद्यकं लिख्यते । तत एवात्र सर्वत्र वासनावगतिः सुगमा । तत्र प्रति
मण्डले गृहोच्चरेखयोरन्तरं दोर्या । ग्रहतिर्यगूखयोरन्तरं कोटिज्या । ग्रहकक्षातिर्यग्
रेखयोरन्तरं कोटिः । ग्रहाद्भूबिन्दुगामिसूत्रं कर्णः । 'कक्षावृत्तकणैसूत्रसंपाते स्फुटो
ग्रहः । कक्षावृत्ते स्फुटमध्यमयोरन्तरं फलम् । तन्मध्येऽग्रगे स्पष्टखगादृणं पृष्ठस्थिते धनम् ।
एवं नीचोच्चवृत्तेऽपि दोज्यस्थाने कोटिज्यास्थाने कोटिफलम् । शेषं समानं
भङ्गीलिखनप्रकारस्तु भगणोपपत्तावुक्तः । किन्तु प्रतिमण्डले तुङ्गादनुलोमं मन्दकेन्द्र
देयम् । शीघ्रकेन्द्रं विलोमं देयम्। नीचोच्चवृत्ते तु मन्दकेन्द्रं विलोमं शीघ्रकेन्द्र
मनुलोमं देयम् ।
एवं कृते मिश्रभङ्ग्यां नीचोच्चवृत्तप्रतिवृत्तयोग एव ग्रहो भवति । तत्र केन्द्र
मेकराशितुल्यं शीघ्रकर्मणि प्रकल्प्य तथा न्यासः । एकादशराशिमितं मान्दं वा
प्रकल्प्य न्यासः । तुङ्गदेशाद्राश्यादितुङ्गभोगेन तत्तत्कालिकं विलोमं मेषादिचिह्नम् ।
मेषदिचिह्नादनुलोमं ग्रहभोगं दत्त्वा ग्रहचिन्हं ज्ञेयम् ।
एवं कक्षामण्डले तुङ्गदेशाद् विलोमं तुङ्गभोगेन मेषादंज्ञात्वा तस्य कक्षा
परिधिकर्णसम्पातस्यान्तरे राश्याद्यः स्पष्टो वेद्यः । एवं द्वितीयदिवसेऽपि तदैवसिकं
मेषादिचिन्हं कक्षावृत्ते ज्ञात्वा पूर्वादिनज ४[ स्पष्टग्रहं तन्मेषादेः कक्षावृत्तपरिधौ
दद्यात् तत्पूर्वादिनज ]
स्पष्टस्थानमिति कल्पयेत् । ततस्तदैवसिकोऽपि कक्षावृत्तकर्णसम्पाते स्पष्टो
ज्ञातव्यः । यद्ययं स्पष्टः पूर्वदिनजस्पष्टचिह्नदग्रे तदा मार्गी ग्रहः। यदा पृष्ठतस्तदा
वक्रग इत्युच्यते । अनयोः स्पष्टयोरन्तरं कक्षावृत्तपरिधौ गतदैवसिका गतिः। एव
मुदाहरणकल्पनया वक्रादिशिष्यान् प्रदर्शयेत् ॥ १६ ॥
इदानीं भोग्यखण्डस्य-धनुःकरणाय स्फुटकरणमाह
विशोध्य खण्डान्यवशेषकार्बनिघ्नं गतैष्यान्तरमेष्यभक्तम् । |
वा० भा० –अत्र धनुःकरणे खण्डेषु विशुद्धेषु यच्छेषं तस्याङ्कन गतैष्यखण्डान्तरं गुणित
मेष्यखण्डेन भजेत् । फलेन गतेष्यखण्डेयदलं प्राग्वत् क्रमधनुःकरणाय हीनमुत्तमधनुःकरणाय
योज्यम्।
२ कक्षावृत्ते इति ग पु° ।
३ एकराशि" इति ग पुरे ।
२. मेकरणशतुल्यमिति ग पु० ।
४. कोष्ठाऽन्तर्गतोंऽशो ग पुस्तके नोपलभ्यते