त्रिज्यातुल्येन कर्कटकेन वृतं कृत्वा भांशै ३६० रडूंयम् । तन्मध्ये पूर्वापरां याम्योत्तरां च रेखां कृत्वा प्राच्याः सकाशात् सव्यक्रमेण किल पदनि कल्यानि वृत्ते रेखावच्छिन्नानि । तेषां क्रमेणा युग्मयुग्मसंज्ञा च । अत्र प्रथमपदे प्राच्याः सकाशाद्वृत्तेऽभीष्टस्थाने बिन्दुः कार्यः । तस्य बिन्दोः प्राच्यपरायाश्च यदन्तरं सा दोज्य । बिन्दोर्याम्योत्तरायाश्च यदन्तरं सा कोटिज्या। तद्धनुषी भुजकोटिसंज्ञे। यथा यथा स बिन्दुरग्रतश्चाल्यते तथा तथा दोज्योंपचीयते कोटिज्या चापचीयते। पदान्तं प्राप्ते बिन्दौ कोटेरभावः । दोज्य च व्यासार्धतुल्या स्यात् । ततो द्वितीयपदे कोटेरु पञ्चयः । तत्पदान्ते कोटिः परमा ॥ भुजस्याभावः । 'अत एवोक्तम् ॥ अयुग्मे पदे यातमेष्यन्तु युग्म' इति। तथात्र धनुषि ज्यारूपा या सा क्रमज्या। शररूपं यदन्तरं सोत्क्रमज्या। बानएनम् व्यासार्धं चैतदितरज्यातुल्यं स्याज्जीवोनं व्यासार्धं तदितरबाणतुल्यं स्याविति वृत्तोपरि सर्वं दर्शनीयम्' । १८-२१ ।
अथ मन्दपरिधीनाह
ft}}मन्दोच्चनीचपरिधिस्त्रिलवोनशक्र १३ । ४० |
मूलेन तदैक्यार्ध युक्त दलितं भवेत् स्पष्टम् । भोग्यं क्रमोत्क्रमधनुः करणायैवं गुरुत्वतो न कृतम् । एवमसकृत्कर्मणापि भोग्यखण्ड स्फुट भवति। तदित्थम्। पूर्व विशोध्य खण्डानि द्ष घ्नशोषादित्यादिनोद्दिष्टजीवातः साधिताद्धनुषः क्रमज्यार्थं यातैष्ययोः खण्डकयोविशेष इत्यादि प्रकारेण भोग्यखण्डं साध्यम् । इदमेव भोग्यं गृहीत्वा विशोध्य खण्डानि दशघ्नशोषादित्यादिना पुनरुद्दिष्टजीवातो धनुः साध्यम् । तस्मात् पुनः क्रमज्यार्थं भोग्यखण्डम् । एवमसकृत् कृते स्फुटं भवति । १. अत्र क्षेत्रदशनम् ।
प्रथम पम्