पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/157

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११२
सिद्धान्तशिरोमणौ ग्रहगणिते

इदानी भुजकोट्यो: फलानयनमाह

भांशैः ३६० हृते च भुजकोटिफलाह्वये स्तः' ।
त्रिज्योद्धृते च यदि वान्त्यफलज्यकाघ्न्यी
त्रिज्योद्भवं फलमिहान्त्यफलस्य जीवा ॥ २६ ॥

वा० भा०-स्पष्टम् ।

 अत्रोपपत्तिः । यावत् केन्द्र' प्रतिमण्डले तावदेव नीचोच्चवृत्ते स्यात् । अतः प्रतिम ण्डलदो:कोटिज्ये अनुपातेन नीचोच्चवृत्ते परिणाम्येते । यदि भांशवृत्त एते दो:कोटिज्ये तदा परिष्यंशवृत्ते किमिति । अथवा त्रिज्याव्यासार्ध एते दो:कोटिज्ये तदान्यफलज्याव्यासार्धे किमिति। फल तुल्यमेव । अन्त्यफलज्या पूर्व नोक्ता तदर्थ त्रिज्योद्धवं फलमित्यादि । त्रिज्या पृथग् ग्रहाणां मन्दशीघ्रपरिधिभागैगुंण्या भांशैः ३६० भाज्यान्त्यफलज्या भवतीत्यर्थः ।। २६ ।। -

 वा० वा०-स्वेनाहते परिधिनेति स्पष्टम् ॥ २६ ॥ इदानों कणनियन प्रकारचतुष्टयेनाह

स्वकोटिजीवान्त्यफलज्ययोयों योगो मृगादावथ ककटादी ।
केन्द्रेऽन्तरं तद्भुजजीवयोर्यद्वगैक्यमूलं कथितः स कृर्णः ॥२७॥
त्रिज्या तथा कोटिफलेन युक्ता हीना च तदोःफलवर्गयोगात्।
मूलं श्रुतिर्वान्त्यफलत्रिमौव्योंर्वगैक्यराशेश्च तथा युतोनात् ॥२८॥
त्रिभज्यया कोटिफलद्विनिध्न्या कोटिज्यया वान्त्यफलद्विनिध्न्या ।
मूलं श्रुतिर्वा मृदुदोःफलस्य चापं बुधा मन्दफलं वदन्ति ॥२९॥

 वा०भा०-मृगादौ केन्द्र कोटिज्यान्त्यफलज्ययोयों योग: कक्यादौ तु तस्य भुजज्यायाव वर्गेक्यपदं कर्णः स्यात् । तथा मृगादिकेन्द्र' त्रिज्याकोटिफलयोर्योगः कक्यादौ तु यदन्तरं तस्य भुजफलस्य च वर्गेक्यपदं व। कर्ण: स्यात्। तथा मृगादिकेन्द्र त्रिज्यान्त्यफलज्ययोर्वर्गयोगात् त्रिज्यया काटिफलगुणया द्विगुणया च युतादथवा कोटिज्ययान्त्यफलज्यागुणया द्विगुणया च युतात् कवर्यादौ तु हीनान्म्लं वा श्रुतिः स्यात् ॥ ॐथ मन्दभुजफलस्य धनुग्रंहस्य मन्दफलं भवति ॥


१. अत्र लल्ल: ।

दोज्र्यावर्गविवजितत्रिभवनज्यावर्गमूलं भवेत
कोटिज्या भुजभागवजितनवत्यंशोत्थजीवाथवा ।
स्पष्टस्वस्वगुणाहते खवसुभिर्दोकोटिजीवे हरेत्
स्यातां दो फलकोटिसंज्ञितफले ताभ्यां श्रुर्ति साधयेत् ।

 शिष्यधीवृ० ग्र० ग० स्प० ३० श्लो०