अत्रोपपतिः । समायां भूमौ बिन्दुं कृत्वा तां भूमि प्रकल्प्य ततस्त्रिज्यामितेन कर्कटकेन कक्षाख्यमण्डल लिखेत्' । तद्धगणाङ्कित। कृत्वा मेषादेरारभ्य ग्रहमुच्चं च दत्वा तत्र चिहे कायें। ततो भूबिन्दूच्चचिह्नयोरुपरि रेखा दीर्घा कार्या। सोच्चरेखोच्यते । अथ तदुत्थमत्स्येन कक्षामण्डलेऽन्या तिर्यग्रेखा च कार्या ॥ भूबिन्दोरुपर्यन्त्यफलज्यामुच्चोन्मुखीं दत्त्वा तदग्रे त्रिज्यामितकर्कटेन प्रतिमण्डलं च कार्यम् । उच्चरेखया सह यत्र सम्पातस्तत्र प्रतिमण्डलेऽप्युच्चं ज्ञेयम् । तस्मादुच्चभोगं विलोमं दत्त्वा तत्र प्रतिमण्डले मेषादिज्ञेयः । ततो ग्रहमनुलोमं दत्त्वा तत्र चिह्नं कार्यम् ॥ अथ प्रतिमण्डलमध्येऽप्यन्या तिर्यग्नेखा कार्या । तिर्यग्रेखयोरन्तरमन्त्यफलज्यातुल्यमेव सर्वत्र भवति । ग्रहोच्चरेखयोरन्तर दोज्याँ । ग्रहतिर्यग्रेखयोरन्तर कोटिज्या । प्रतिमण्डलस्थ ग्रहाद्भूबिन्दुगामि सूत्रं कर्णः ॥ कर्णसूत्रस्य कक्षावृत्तस्य च यत्र सम्पातस्तत्र स्फुटो ग्रहः ॥ कक्षामण्डले स्फुटमध्ययोरन्तरं फलम् । तच्च मध्यग्रहात् स्फुटेऽग्रस्थे धनं पृष्ठस्थे त्वृणमिति कि ठ ग्रहसंस्थानम् ।
अथात्र कर्णस्योपपत्तिः । कक्षावृत्तप्रतिवृत्ततिर्यक्स्थरेखयोरन्तरं किलान्त्यफलज्या । प्रतिमण्डले कोटिज्यान्त्पफलज्याग्रादुपरि भवति मृगादिकेन्द्रेऽतस्तत्र तदैक्यं स्फुटा कोटि. । कक्र्यादौ तु तदधोऽतस्तत्र तदन्तरं स्फुट कोटि. । स्फुटकोटिमूलस्य भूबिन्दोश्च यदन्तरं तद्भुजज्यातुल्यमेव स्यात् ॥ अतस्तयोर्भुजकोटच्योर्वर्गयोगात् पदं कर्ण इत्युपपन्नम् ॥
अथ क्रियोपसंहारः । कोटिज्यान्त्यफलज्ययोर्योगस्यान्तरस्य च वर्गः कार्यः स चैवम् । ‘खण्डद्वयस्याभिहतिर्द्विनिध्नी तत्खण्डवर्गेक्ययुता कृतिः स्यादिति’ । तत्र कोटिज्यैकं खण्डम् । अन्त्य फलज्याद्वितीयं खण्डम्। आभ्यां कृता कृतिः । कोओं २ कोव १ अंव १।इय योगस्य । अन्तरस्येय कोओं २ कोव १ अंव १ । इदानीं दोज्यविग: साध्यते । कोटिज्यावगॉनस्त्रिज्यावग दोज्यावग:
१. अत्र प्रतिवृत्तमङ्गिः ॥