पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/159

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११४
सिद्धान्तशिरोमणौ ग्रहगणिते

स्यादिति जातो दोज्यवर्गः कोव १ त्रिव १ । अनयोर्यावद्योगः क्रियते तावद्धनर्णयोः कोटिज्यावर्गयोस्तुल्यत्वान्नाशे कृते त्रिज्यान्त्यफलज्ययोर्वगैक्र्य कोटिज्ययान्त्यफलज्यागुणया द्विनिध्न्या च युर्त जातम्। एवं मृगादिकेन्द्र । कक्र्यादिकेन्द्र तु तया हीन भवति। एवं तन्मूल कर्ण इत्युपपन्नम् ॥ इदं कर्णानयनद्वयं प्रतिमण्डलभङ्गया ।

  अथ नीचोच्चवृत्तभञ्ज्ञया चोच्यते' । कक्षामण्डले मध्यग्रहस्थानेऽत्यफलज्यामितकर्कटेन वृत्तं विलिख्य भूबिन्दोर्मध्यग्रहोपरिगामिनी रेखा कार्या सा तत्रोच्चरेखा । तस्य वृत्तस्य रेखया सह यौ योगौ तयोरुपरितन उच्चसंज्ञः । अधस्तनो नीचसंज्ञः । तद्रखातोऽन्या तिर्यग् वृतमध्ये मत्स्येन रेखा कार्या । तदपि वृत्तमुच्चप्रदेशाद्धांशैरडूयम् । तत्रोच्चाच्छीघ्रकेन्द्रमनुलोमं देयम् । मन्दकेन्द्रन्तुविलोमं देयम् । तत्र शीघ्रकेन्द्राग्रे पारमार्थिको ग्रहः । मन्दाग्रे मन्दस्फुट: । अत्रापि ग्रहोच्चरेखयोरन्तरं भुजफल ग्रहतिर्यग्रेखयोरन्तर कोटिफल ग्रहभूम्योरन्तरं प्राग्वत् कर्णः ॥ अथ तदानयनम् । मकरादिकेन्द्रे त्रिज्योध्र्वतः कोटिफलं दृश्यते । कक्र्यादौ तु तदधः । अतस्तदैक्यान्तरं स्फुटा कोटिः ॥ भुजफलन्तु तत्र भुजः तयोर्वर्गयोगपदं कर्ण इत्युपपन्नम् ॥ अत्रापि क्रियोपसंहारः ॥ अत्र स्फुटकोटिवर्गः खण्डद्वयेन प्राग्वत् ॥ तत्रैकं खण्डं त्रिज्या ॥ द्वितीयं कोटिफलम् । अतः खण्डद्वयस्याभिहतिद्विनिध्नीत्यादिना जातो वर्गः । त्रिकोफ २ त्रिव १ कोफव


१. नीचोच्चवृत्तभङ्गिः ।