पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/160

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११५
स्पष्टाधिकारः

१ अर्य योगस्य। अन्तरस्यायम्। त्रिकोफ ६ त्रिव १ कोफव १। कोटिफलवर्गोनोऽन्त्यफलज्यावर्गों भजफलवर्गों जातः । कोफव १ अंव १ अप्नयोर्योंगे कोटिफलवर्गनाशे त्रिज्यान्त्य फलज्यावर्गीक्य त्रिज्याकोटिफलघातेन द्विगुणेन मृगादिकेन्द्र युतं कक्र्यादौ तु रहितं तस्य पदं कणं इत्युपपन्नम् ॥ २७-२९ ।।

 वा० वा०-स्वकोटिजीवान्त्यफलज्ययोरिति । त्रिज्या तथेति । त्रिभज्ययेति ।

 प्रथमप्रकारद्वयं छेद्यकर्शनमात्रावगतोपपत्तिकम् । भुजकोटद्योर्वर्गयोगपदं कर्णः । तत्र कोटेः खण्डद्वयमिति प्रथमप्रकाराभ्यां ज्ञातम् । ततः

 “१खण्डद्वयस्याभिहतिद्विनिघ्नी तत्खण्डवगैंक्ययुता कृतिर्वा” इति कोटेर्वर्ग: कार्यः । तत्र* [भुजवर्गो योज्यः । तत्र यावद् भुजज्यावर्गे कोटिज्यावर्गो योज्यते तावत् त्रिज्या वर्ग एव भवति । यतो] भुजज्या भुजः, कोटिज्या कोटिस्त्रिज्या कर्ण इति । एवं. दोः फलं भुजः कोटिफलं कोटिः अन्त्यफलज्या कर्ण इति दोः ऽन्त्यफलज्या वर्गः । तस्मादनवद्यम् ॥ २७-२९ ॥

इदानींमकेंन्द्वोः फलानयन लघुज्यया लघुप्रकारेणाह
ये केन्द्रदोज्यें लघुखण्डकोत्थे क्रमाद्रवीन्द्रोनखसंगुणे ते।
N भक्ते त्रिखेशैः ११०३ मुनिसप्तवेदैः ४७७ यद्वा तयोर्मन्दफले लवाद्ये ॥३०।।

 वा० भा० - स्पष्टम् ।

 अत्रोपपत्तिः । अर्कस्य बृहज्ज्याभिः परमं फलमानीतं भागद्वयं सार्धदशकलाधिकं किल भवति । २ ।। १० । ३१ । यदि लध्व्या त्रिज्यातुल्यया दोज्यंयेद फल तदाभीष्टया किमिति । एवमनुपातेन दोज्ययाः फलं गुणस्त्रिज्या १२० हरः ॥ अथ संचारः । यदि फलमिते गुणे त्रिज्याहरस्तदा विशतिष्मिते किमित्युत्पद्यन्ते त्रिखेशाः ११०३ । अथ चन्द्रस्य परम फलमटविकलाधिककलाद्वयाधिकाः पञ्च भागाः ५ । २ । ८ ॥ इहापि नखगुणत्रिज्याया: २४०० फलेन भागे हृते लभ्यन्ते मुनिससवेदाः ४७७ ।।॥ ३० ॥

इदानीमर्केन्द्रोर्गतिस्पष्टीकरणम्—

तत्कोटिजीवा कृतबाणभक्ता रवेर्विधोवेदहताद्रिभक्ता ।
लब्धाः कलाः कर्किमृगादिकेन्द्रे गतेः फलं तत् क्रमशो धनर्णम् ॥३१||

 वा० भा०-तत्कोटिजीवेति । लप्ध्वी कोटिज्या कृतबाणभक्ता रवेर्गतिफल स्यात्। विधोस्तु केन्द्रकोटिज्या लघ्वी वेदगुणा ससभक्ता गतिफलं स्यात् ॥ तत् फलं कक्र्यादिकेन्द्र धनं मकरादावृणं गतेः कार्यम् ॥ एवं तात्कालिकी स्फुटा गतिर्भवति ॥


१. द्वयस्वहति इति क० ख० पु० । लीला० वर्गीकरणे सूत्रम् । २- कोष्ठान्तर्गतोंऽशो ग० पु० नास्ति।