पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/164

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११९
स्पष्टाधिकारः

इदानी गतिस्फुटीकरणमाह

दिनान्तरस्पष्टखगान्तरं स्याद् गतिः स्फुटा तत्समयान्तराले। ३६ ।
कोटीफलध्नी मृदुकेन्द्रभुक्तिस्त्रिज्योद्धृता कर्किसृगादिकेन्द्र।
तया युतोना ग्रहमध्यभुक्तिस्तात्कालिकी मन्दपरिस्फुटा स्यात्' ॥३७॥
समीपतिथ्यन्तसमीपचालनं विधोस्तु तत्कालजयेव युज्यते ।
सुदूरसंचालनमाद्यया यतः प्रतिक्षणं सा न समा महत्वतः ॥ ३८ ।।

 वा० भा०-अद्यतनश्वस्तनस्फुटग्रहयोरौदयिकयोदिनार्धजयोवस्तिकालिकयोर्वा यदन्तर कलादिक सा स्फुटा गतिः । अद्यतनाच्छवस्तने न्यूने वक्रा गतिज्ञेया । तत्समयान्तराल इति । तस्य कालस्य मध्येऽनया गत्या ग्रहश्वालयितुं युज्यत इति । इयं किल स्थूला गतिः । अथ सूक्ष्मा तात्कालिकी कथ्यते । तुङ्गगत्यूना चन्द्रगतिः केन्द्रगतिः । अन्येषां ग्रहाणां ग्रहगतिरेव केन्द्रगतिः । मृदुकेन्द्रकोटिफलं कृत्वा तेन केन्द्रगतिगुंण्या त्रिज्यया भाज्या लब्धेन कक्यादिकेन्द्र ग्रहगतिर्युक्ता कार्या। मृगादौ तु रहिता कार्या। एवं तात्कालिकी मन्दपरि


१. अन्न ललल:-

ज्याखण्डकेन गुणिता मृदुकेन्द्रजेन भुक्तिग्रीहस्य शरयुग्मयमैविभक्ता ।
क्षुण्णा स्फुटेन गुणकेन हृता खनागैलिसा गतेः फलमृणं धनमुक्तवच्च ॥

(शि० धी० ग्र० ग० स्प० ३८ श्लो०) श्रीपतिः

मन्दकेन्द्रगतिरकंचन्द्रयोज्र्यान्तरेण गुणिता हृताद्यया ।
जीवया स्वपरिणाहताडिता खर्तुरामविहृता गतेः फलम् ॥

( शि० शे० स्प० ४० श्लो० )

 अत्र बापूदेवोक्तो विशेषः ।  कोटीफलघ्नीत्यायूक्तप्रकारेणानीतं मन्दगतिफल स्वल्पान्तरम् । तस्याद्यतनश्वस्तनफलज्ययोरन्तरत्वात्। सूक्ष्मं त्वद्यतनश्वस्तनफलान्तरमेव । तच्च साधितज्यान्तरानुपातेनावगन्तुं सुशकम्। तथाहि। अद्यतनफलस्य जीवायां क्रियमाणायां यद्भोग्यखण्ड तेन यदि शरद्विदलमित चापान्तरं लभ्यते तदा साधितज्यान्तरेण किमित्यनुपातेन शरद्विदलघ्न साधितज्यान्तर मोग्यखण्डहृतमद्यतनश्वस्तनफलान्तरं स्यात्। तत्र त्रिज्यातुल्यया कोटिज्यया शरद्विदखमित मोग्यखण्डं तदा फलकोटिज्यया किमित्यनुपातेन शरद्विदरुध्नी फलकोटिज्या त्रिज्यया भत्ता स्फुटभोग्यखण्डं स्यातू फकीया २२५ । अनेन साधितज्यान्तरे शरद्विदलघ्ने कोफ*ग २२५ त्रि १ त्रि १ अस्मिन् भक्ते जातम् अत्र त्रिज्यातुल्ययो.शरद्विदस्रतुल्ययोश्च गुणकभाजक कयोर्नाशे कृते कोटीफलघ्नी मृदुकेन्द्रभुक्ति: फलकोटिज्यया विहृतेति सिद्धम् । इदमेव सूक्ष्मं मन्दगतिफलम्। मन्दफलान्तरत्वात्। आचार्योंक्त तु स्थूलं फलज्यान्तरत्वात्।