पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/166

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१२१
स्पष्टाधिकार:

अथ स्थूलसूक्ष्मगत्योरानयनप्रयोजनमाह-तत्रापि चन्द्रस्य विशिष्टम् ।
'समीपतिथ्यन्तसमीपचालनमिति' । अत्राद्यया स्थूलयेत्यर्थ: ॥ ३५३-३८।।

इदानीं गते: शीघुफलमाह

फलाशखाङ्कान्तरशिञ्जिनीघ्नी द्राक्केन्द्रभुक्तिः श्रुतिहृद्विशोध्या ।
स्वशीघ्रभुक्तेः स्फुटखेटभुक्तिः शेषं च वक्रा विपरीतशुद्धौ ।। ३९ ॥।।

 वा० भा०-ग्रहस्य ये शीघूफलांशा आगच्छन्ति ते नवतेः ९० शोध्याः । शेषांशानां या ज्या तया शीघकेन्द्रगतिर्मुण्या शीघूकणेंन भाज्या । लब्धं शीघ्रोच्चगते: शोध्यम् । शेष स्फुटा गतिर्भवति। यदि न शुध्यति तदा विपरीतशोधने कृते वक्रा गतिर्भवति ।  अत्रोपपत्तिः।अद्यतनश्वस्तनशीघ्रफलयोरन्तरं गतेः शीघ्रफलं स्यात् । तच्च यथा मान्र्द गतिफल ग्रहफलवदानीत तथा यद्यानीयते कृतेऽपि कर्णानुपाते सान्तरमेव स्यात्। यथा धीवृद्धिदे। नहि केन्द्रगतिजमेव फलयोरन्तरं स्यात् किन्त्वन्यदपि अद्यतनभुजफलश्वस्तनभुजफलान्तरे त्रिज्यागुणेऽद्यतनकर्णहते यादृश। फल न तादृश। श्वस्तनकर्णहृते। स्वल्पान्तरेऽपि कर्ण भाज्यस्य बहुत्वाद्बह्वन्तरं स्यादित्येतदानयनं हित्वान्यन्महामतिमद्भिः कल्पितम् ॥ तद्यथा ॥ केन्द्रगतिरेव स्पष्टीकृता । तस्यां हि शीघ्रोच्चगतेः शोधितायां ग्रहस्य गतिः स्फुर्टवावशिष्यत इति।तत्र स्फुट


१. अत्र श्रीपति:-

द्राक्केन्द्रभुतिरथवा गुणिता स्वभोग्यमौव्र्या शराकृतिहृता परिणाहूनिध्नी।
चक्रांशकैरपि हृता गुणिता त्रिमौव्य कर्णोद्धृता भवति शीघ्रफलं हि भुक्तेः ॥॥

लल्लोऽपि
---सि० शेo स्प० ४४ श्लो० ।
 

 तद्वजिता स्वचलतुङ्गगतिः स्वभोग्यखण्डाहता शरयमाक्षिहृता हता च ।। "स्वेन स्फुटेन गुणकेन खनागभता त्रिज्याहता श्रुतिहृताशुफलं गतेः स्यातू ॥ मन्दस्फुटा ग्रहगतिः स्फुटतामुपैति युक्तोनिता विरहिता सहितामुना च । शीघ्राभिधाननिजकेन्द्रपदक्रमेण वक्रा गतिर्भवति चेहणतो विशुद्धा ॥ बाणाब्धिभिः शशिगुणैः खयमैः खबाणैरङ्गलवैस्त्रिगृहमाद्यपदं युतं स्यात् । ऊनं तृतीयमिति केन्द्रपदोक्तलक्ष्म बुद्धवा गतौ चलफलं स्वमृणं विधेयम् । शि ० धी० ग्र० ग० स्प० ३९-४१ ।।

त्रिज्याहता ग्रहगतिर्मृदुकर्णहृद्वा मन्दस्फुटा भवति तद्रहिताशुभुक्तिः ॥ त्रिज्याहता स्वचलकर्णहृताशुचापभोग्यज्यया विगुणिता विहृताद्यमौव्य ॥ लब्धं त्यजेत् स्वचलतुङ्गगतेः सदैव शेषं ? स्फुटा भवति च ग्रहभुक्तिरेवम् । लब्धं भवेद्यदधिकं चलतुङ्गभुक्तेर्व्यस्तं , मुनक्ति खचरः प्रतिवासरं तत् ॥ अत्र बापूदेवोक्तं कर्णनिरपेक्षं स्फुटगतिसाधनम्- (शि० धी० ग्र० ग स्प० ४५-४६ श्लो०)

त्रिज्या द्राक्केन्द्रभुक्तिघ्नी द्विध्नद्राक्फलदोज्यया ।
क्षुण्णान्त्यफलजीवाघ्न्या द्विघ्न्या द्राक्केन्द्रदोष्ज्र्यया ।
मत्ता लब्धे स्वशीघ्रोच्चगतेः शुद्धेऽवशेषकम् ।
सपषत खेटगतिव्र्यस्तशुद्धी वक्रगतिर्भवेत् । ।।

सि०-१६