जीवाया उपचयः । अथ तस्य भोग्यखण्डस्य स्फुटीकरणम्। यदि त्रिज्यातुल्यया कोटिज्ययाद्य भोग्यखण्ड तदा फलकोटिज्यया किमिति। एवं कृत आद्यखण्ड फलकोटिज्या च केन्द्रगतेर्गुणी शरद्विदस्रास्त्रिज्या च हरौ २२५॥३४३८ । अथान्योऽनुपातः । यदि कर्णाग्र एतावदन्तरं तदा त्रिज्याग्रे किमिति । लब्धं कक्षावृत्ते ज्यारूपं भवति । तस्य धनुःकरणेऽल्पत्वज्जीवा न शुध्यति किन्तु शरद्विदरुना गुण आद्यखण्ड हर: स्यात्। तथा कृते दर्शनम् । गुणः । त्रि. फलको आ. २२५ ॥ छेदः। त्रि. क. आ. २२५ अत्र शरद्विदलतुल्ययोस्तथा त्रिज्यातुल्ययस्तथाद्यखण्डतुल्ययोश्च गुणकभाजकयोस्तुल्यत्वान्नाशे कृते केन्द्रगतेः फलकोटिज्या गुणः कर्णो हरः स्यात् । फलं तु स्फुटा केन्द्रगतिर्भवति । सा शीघ्रोच्चगतेः शोध्या । शेषं स्फुटा ग्रहगतिर्भवति । अत उत्ततं फलांशखाडूान्तरशिक्रिजनीघ्नीत्यादि । अत्र भोग्यखण्डस्फुटीकरणस्य फलं प्रदश्यंते । कक्षामध्यगतिर्यग्रेखाप्रतिवृत्तसंपाते भुञ्जज्यातुल्यः कर्णो भवति । तावतो च फलांशखाङ्कान्तरशिञ्जिनी ॥ अतस्तुल्यत्वाद्गुणकभाजकयोरविकृतैव । केन्द्रगतिः । ततो मध्यैवात्र गतिः स्पष्टा अस्फुटखण्डग्रहणे ॥
भोग्यज्यया विगुणिता विहृताद्यमौव्र्या। |
इत्यनेनाप्यानयनेन तत्र मध्यगतितुल्या सम्यग्भवतीति सर्वमत्र निरवद्यमिति भावः ॥३९॥
वा० वा०-अथ गते: स्पष्टत्वमाह-‘फलांशखाङ्कान्तरशिब्जिनिध्नी" इति । अद्यतनश्वस्तनशीघ्रफलयोरन्तरं गतेः शीघ्रफलम् । तत्र कक्षामध्यगतिर्यग्रेखाप्रतिवृत्तसम्पाते गतेः शीघ्रफलाभावः । शीघ्रतुङ्गनीचप्रदेशष्योः ग्रहशीघ्रफलाभावाद्गतेः शीघ्रफलं परमम् । यस्मिन् दिने शीघ्रफलाभावो ग्रहस्य तस्मिन्नहनि शून्यराशिमितं केन्द्रं षड्राशिमितं वा केन्द्रं भवति । द्वितीयदिवसे शीघ्रकेन्द्रगतितुल्यमेव केन्द्रं वर्द्धते । तस्माद्द्वतीयदिवसे केन्द्रगतितुल्य एव भुजो भवति । तस्य ज वा तत्त्वाश्वितुल्यैव । यतश्च शीघ्रकेन्द्रगतिस्तत्त्वाशिवभ्योऽल्पैव भवति ।
तस्मातू केन्द्रगतिरन्त्यफलज्या गुणितास्त्रिज्याभक्ता जातं नीचोच्चवृत्ते दो:फलं द्वितीयदिनजम्। पूर्वदिवसे दो:फल शून्यं भुजज्याभावात्। २ग्रहदो:फलयोरन्तरमेव गतेः शीघ्रदोः फुलं भवति । केन्द्रभुक्तिरन्त्यफलज्यागुणात् त्रिज्याभक्तैव गतेः शीघ्रदोः फलं परमं भवतीति निरूपितम् । उच्चतुल्ये वा ग्रहे गतेः शीघ्रदोः फलं परमम् ।। तत्र शीघ्रफलकोटिज्याशीघ्रकर्णान्तरं परमन्त्यफलज्या तुल्यम् । यत्र कक्षामध्यगतिर्यग् रेखा प्रतिवृत्तसम्पाते गतेः शीघ्रदो:फलाभावस्तत्र फलकोटिज्याकर्णान्तराभावः । तस्माच्छीघ्रफलकोटिज्याकर्णान्तरत एव नीचोच्चवृतीयं गते: शीघ्रदो:फलं साध्यते । तत्रानुपातः । यद्यन्त्यफलज्यातुल्येन फलकोटिज्याकर्णान्तरेणान्त्यफलज्यागुणितायास्त्रिज्याभक्तायाः केन्द्रगतेस्तुल्यं गतिदोः फलं लभ्यते तदेष्टेन फलकोटिज्याकर्णान्तरेण किमित्यन्त्यफलज्यातुल्ययोर्गुणहरयोर्नाशे केन्द्रगतिः फलकोष्टिज्याकर्णान्तरगुणा त्रिज्याभक्ता नीचोच्चवृत्ते गते: शीघ्रदी:फलं सिद्धम् ।
R. fo धीवृ० ग्र० ग० स्प० ४५ श्लो० । • २. ग्रहफले पारंतरभेव इति ग go