पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/17

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

haul ( ९ ) सिद्धान्तशेखरग्रन्थस्य ग्रहयुद्धारम्भे प्रविलोक्यते । तथापि बहवो विशेषा उदयान्तरकर्म सम्बन्धिनो भास्कराचायेंण समुदिता इति सवें विद्वांस: स्वीकुर्वन्ति । तथान्ये विशेषाः सिद्धान्तग्रन्थेभ्यः— १. ज्याचापार्थ भोग्यखण्डस्फुटीकरणम्, २. ग्रहगतिः, ३. इच्छादिच्छाया ४. रवीन्द्वोः कलाकर्णः, ५. योजनात्मककर्णस्य स्फुटत्वम्, ६. रविचन्द्रयोर्योजनबिम्बम् ७. रवीन्द्वोः कलात्मकबिम्बसाधनम्, ८. स्थित्यर्द्धविमर्दार्द्धसाधनम्, ९. सकृदुविधिनालम्बनानयनम्, १०. चन्द्रगोलसन्धिवर्णनम्, ११. लग्नार्थमर्कस्य तात्कालिकीकरणम् १२. सदोदितभानां विवेचनम्, १३. भूपृष्ठफलानयनम्, १४. लल्लोत्तराशिदृश्यादृश्यत्व खण्डनम्, १५ भूपृष्ठीयच्छायानयनम्, १६. फलकयन्त्रवर्णनम्, १७. शङ्कुत्रितयवशाइ दिग्देशादिज्ञानम्, १८. छाययोयगान्तरज्याज्ञानमित्यादयः सन्ति । नृसिंहः ज्योतिषेतिवृत्ते नृसिहद्वयस्यापि प्रसिद्धिरस्ति । प्रथमस्तु तावद् गणेशदैवज्ञस्य भ्राता रामस्य पुत्रो बभूव । अनेन नन्दिपुरस्थितेन रामसुतनृसिंहेन १४८० शके ‘मध्यग्रहसिद्धिः’ उत्तेति म० मी० सुधाकरद्विवेदिमहाभागानां कथनं गणकतरङ्गिण्याम् ॥* द्धितीयो वासनावार्तिककारो नुर्सिहः अस्य महाप्राज्ञस्य जन्मशकस्तत्कथनेनैव ज्ञायते । यथोक्तं वासनावात्तिकान्ते-- गुणवेदशरेन्दुसम्मिते शककाले नगरे पुरेशितुः । वसता वरुणासिमध्यगे नरसिहेन विनिमितं त्विदम् ॥ निजे तत्वमिते वर्ष सौरभाष्यं मया कृतम्। पञ्चत्रिशन्मिते वर्षे वासनावात्तिकं कृतम् ।।* एतेनेदमपि विज्ञायते यदनेन पञ्चविंशतिवर्षे वयांसि पूर्व सूर्यसिद्धान्तस्य टोकां सौरभाष्याख्यां विधाय पञ्चत्रिशन्मितवयःकाले सिद्धान्तशिरोमणेष्टीका कृता वाराणस्याम्। r अयं हि महाराष्ट्रीयो विप्रः कृष्णदैवज्ञपुत्रो दिवाकरदैवज्ञजनकः शिवाग्रजः स्वकीयतात ( कृष्ण ) पितृभ्यां बिष्णुमल्लारिभ्यामधीतविद्यो गोदावर्याः सौम्यतटे गोलग्रामे वसति चकारेति वासनावातिकान्ते तद्वाक्येनैव परिचीयते । यथा

  • गोदावरी सौम्यतटोपकण्ठग्रामे च गोलेऽभिधया प्रसिद्धे وہ

R. To fro Riss go २. सि० शि० ५३६ पृ० । ३. सि० शि० ५३६ पृ० !