पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/177

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३२
सिद्धान्तशिरोमणौ ग्रहगणिते

 अत्रोपपत्तिः-क्रान्तिवृत्ते वृषभान्ते सूत्रस्यैकमग्रं बद्ध्वा द्वितीयमग्रं कीटानैः ने तस्य सूत्रस्यार्धमेकराशेज्र्या भवति । एवं सूत्रस्यैकमग्र मेषान्ते बद्ध्वा द्वितीय सिहान्ते तस्य सूत्रस्यार्धं राशिद्वयस्य ज्या भवति ॥ एवं मेषतुलादौ बद्धसूत्रस्यार्धं त्रिज्या । एता एव वृषभान्तमेषान्तमीनान्ताहोरात्रवृत्तपरिणतानां चापान्तराणि कीटादिकानामुदया भवन्तीति गोले प्रदर्शयेत् ॥५६॥ इदानी पुनः प्रकारान्तरेणाह

मेषादिजीवास्त्रिगृहद्युमौव्यां ३१४१ क्षुण्णा हृताः स्वस्वदिनज्यया वा ।
चापीकृताः प्राग्वदधो विशुद्धा मेषादिकानामुदयासवः स्युः ॥५७॥

वा० भा०-स्पष्टार्थमिदम् ।
अस्योपपत्तिर्गोले कथितैव सुगमा च ।॥५७॥

अथ निष्पन्नास्तानसूनाह ‌-

तेऽभ्राद्रिभूपा १६७० गुणगोऽद्रिचन्द्राः १७९३
सप्ताग्निनन्देन्दुमिता १९३७ १अथैते ।
क्रमोत्क्रमस्थाश्चरखण्डकेः स्वेः
क्रमोत्क्रमस्थैश्च विहीनयुक्ताः ॥९८॥ V
मेषादिषण्णामुदयाः स्वदेशे तुलादितोऽमी च विलोमसंस्थाः* ।


१. अत्र लल्ल:-

ते चासवो गगनभूधरषट्कचन्द्राः पञ्चाङ्कसप्तशशिनोऽक्षगुणाङ्कचन्द्राः ।
व्यस्तास्तथा निजचरार्धविहीनयुक्ताः षण्णा क्रमात् स्वविषये पुनरुत्क्रमाच्च ।

( शि० धी० ग्र० ग० त्रि० ९ श्लो०)

सूर्यसिद्धान्ते -खागाष्टयोऽर्थगोगैकाः शरत्र्यङ्कहिमांशवः ।

२. अत्र बापूदेवोक्त लङ्कोदयनिरपेक्षमाद्यपदे स्वदेशोदयसाधनम्—
अक्षज्यका च त्रिगृहद्युजीवा चते पृथक् त्रिज्यकया विनिघ्न्यौ ।
मेषादिराश्युत्थदिनज्ययासे तच्चापभागान्तरजातमौव्य: ॥
मेषादिराशिज्यकया हताया लम्बज्ययासस्य धनुःकला याः ।
ता एव मेषाह्युदयासवः स्युः स्वदेशजाश्चाद्यपदे किलैवम् ।

शा० बापूदेवोत्तं द्वितीयपदे स्वदेशोदयसाधनम्‌

तःच्चापभागान्तरजातमौर्वीस्थाने तु तच्चापलवैक्यमौर्वी ।
कार्या ततश्चोक्तवदेव कुर्याद्भवेयुरेवंहद्युदयाख्यभागाः ।
अस्मिन्पदेऽब्धिद्विकलाधिकाक्षाशुगांशतश्चाभ्यधिकाक्षदेशे ।
ये स्युद्वितीयोदयश्चापभागास्तदूनिताः खेभभुवो विधेयाः ।
सर्वत्र या स्याच्चरमोदयज्या कार्यास्तदुत्थोदयभागहीनाः ।
खाष्टेन्दवस्ते हद्युदयाख्यभागास्तेषां कलाः स्वोदयजासवः स्युः ।
मेषादिराशित्रितयस्य ये ते क्रमेण कन्याहरिकर्कटानाम् |
ज्ञेयं बुधव्यक्षपुरोदयानां ज्ञान विना स्वोदयसाधन हि।