पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/179

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१३४
 सिद्धान्तशिरोमणौ ग्रहगणिते

 बा० भा०-अर्कस्य यद्भुजफल यस्मिन् राशौ रविर्वर्तते तस्य राशे: सम्बन्धी यो निरक्षो- दयस्तेन तद्गुणितं राशिकलाभिः १८०० भक्ततं, पुनर्ग्रहगत्या गुणितमहोरात्रासुभिः २१६५९ भक्तं यत् फलं तद्ग्रहेऽर्कवद्धनणं कार्यम् । यद्यकस्य भुजफलं धनं तदा सूर्यस्यान्येषां च धनम् । यदि ऋणं तदा ऋणमित्यर्थः ।

 अत्रोपपति:-ये मध्यमाकौंदयिकास्ते स्फुटाकौंदयिकाः क्रियन्ते। तत्रार्कफलस्यासुकरणे ऽनुपातः ॥ यदि राशिकला १८०० निरक्षोदयासुभिरुद्गच्छन्ति तदा फलकलाः कतिभिरिति । लब्धं भास्वत्फलोत्था असवो भवन्ति । अथान्योऽनुपातः ॥ यदि द्युनिशासुभिर्गतिकला लभ्यन्ते तदैभिः किमिति । ताः कला अतो ऋणं धनं यतो मध्यमाकॉदयात् प्राक् स्फुटाकोदय. स्यादृणे तत्फले स्वे यतोऽनन्तरमित्युपपन्नम् ।॥६१॥

 इदानीमुदयान्तमाह--

युक्तायनांशस्य तु मध्यमस्य भुक्तासवोऽर्कस्य निरक्षदेशे ।
मेषादिभुक्तोदयसंयुता ये यश्चायनांशान्वितमध्यभानोः ॥६२॥
लिप्तागणस्तद्विवरेण निध्नी गतिग्रीहस्य द्युनिशासुभक्ता ।
स्वर्ण ग्रहे चेदसवोऽधिकोना इदं ग्रहाणामुदयान्तराख्यम् ॥६३॥

 वा० भा०-मध्यमार्कस्य सायनांशस्य ये राशेर्मुक्तभागास्तैस्तदुदयं निरक्षदेशीयं संगुण्य त्रिशता विभजेत् फलं तस्य राशेभुक्तासवः ॥ अथ मेषाद्या येऽर्केण भुक्ता राशयस्तेषां च निरक्षो- दयासवस्तत्र योज्यास्ते मेषादिभुक्तोदयासवः स्युः ॥ अथ मध्यमार्कस्य सायनांशस्य कलाः कार्याः ॥ तासां कलानां तेषामसूनां च यदन्तरं तेन ग्रहगतिगुण्या द्युनिशासुभिर्भाज्या लब्धाः कला ग्रहे धनं कार्याः ॥ यदि कलाभ्योऽसवोऽधिकाः स्युः ॥ यदि न्यूनास्तदा ऋणम् ॥

 अत्रोपपत्तिः--इह यः पूर्वमहर्गणः कृतः स मध्यमसावनमानेन स्फुटसावनस्य चल- त्वात् ॥ रविमध्यगतिकलातुल्यासुभिः सहिता नाक्षत्राः षष्टिघटिकाः ६० ॥ ५९ ॥ ८ ॥ इदं मध्यममर्कसावनम् । ता गतिकला यैरसुभिरुद्गच्छन्ति तद्युताः षष्टिघटिकाः स्फुटसा- वनम् ॥ तच्चलम् । प्रत्यहं गत्यन्यत्वात् »तिमासं राश्युदयान्यत्वाच्च । तादृशोऽहर्गणः कर्तु नायातीति मध्यम: कृतः । तेन सम्यगकोंदये ग्रहा न भवन्ति । कदाचिदकौंदयातू प्राक कदाचिदनन्तरम् । अत एव प्रागुक्तम्—

दशशिरःपुरि मध्यमभास्करे क्षितिजसन्निधिगे सति मध्यमः ।
इति ।
अथ स्फुटमध्याहर्गणयोरन्तरानयनमू--

 मेषादेरारभ्य येऽर्कभुक्ता राशयस्ते यैरसुभिरुद्गच्छन्ति त एकीकृताः ॥ तावत्यस्वात्मके काले भदिनान्तादूध्वंमहर्गणेन भवितव्यम् ॥ अथ च मेषादिभुक्तकलातुल्येऽन्तरे कृतः । अतोऽसूनां कलानां च यदन्तरं तावद्भिरसुभिरहर्गणोऽन्तरितः । यद्यहोरात्रासुभिर्गतिलभ्यते तदभिरन्तरासुभिः किमिति । फलं ग्रहेषु स्वं यद्यसवोऽधिकाः ॥ अन्यथा ऋणमित्येतदुक्ततं युक्तमेव ॥ ६२-६३ ॥