पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/18

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( &o ) अस्य वंशपरम्परा रामः' f: दिवाकर: कृष्णः, विष्णुः, मल्लारिः, केशवः, विश्वनाथः नृसिंहः, शिव: दिवाकरः, कमलाकरः, गोपीनाथः, रङ्गनाथः स्वकीयवासनावात्तिकस्य प्रशंसा स्वयमेव नृसिहेन कृता वर्तते वातिकान्ते । यथा- . . " नो या वराहेण च जिष्णुजेन पृथूदकेनार्यभटेन जुष्टाः ॥ असंस्तुता । भास्करदर्शनेन । ता वासनावात्तिक एव लभ्याः ॥* . . अनेनाऽस्य महत्वमस्ति, तथापि वासनावार्तिके बहूनां पारिभाषिकशब्दानां विवेचनं ग्रन्थकारेणाऽत्र कृतमस्ति । · सङ्गृहीतमातृकाणां परिचयः अस्य वासनावातिकस्य सम्पादनावसरे मया सम्पूर्णानन्दसंस्कृतविश्धविद्यालयीयसरस्वतीभवनस्य या मातृका गृहीतास्तासा विवरणमित्थम्- - सं० १-३५६२८ ग्रन्थाडूस्य पत्राणि १-७५ तथास्य ३५७६१ पत्राणि १-४६, अनयोः 'क' स्'ज्ञा कृता । सं० २-९८११६ प्र० सङ्ख्याडूस्य पत्राणि १-११८ तथास्य ६८२५९ प्र० सङख्याकस्य पत्राणि १-१२३, अनयोः 'ख' संज्ञा विहिता । - - -- सं० ३-६८११३ प्र० ग्र० पत्राणि १-५१ तथास्य &८७२१ पत्राणि १-६३, ६५-१२७, अनयोः *ग’ संज्ञया व्यवहारः कृतः ॥ । १. भा० ज्योo ३८५ पृ० । २. सि० शि० ५३५ पृ० ।