पदमध्ये राशित्रयं भवति । तद्दोष्ज्र्यया लघ्व्या षड्वंशत्या चानुपातः । यदि खार्कमितया दोज्र्यया षड्रविशतिलभ्यते तदाभीष्टया किमिति। अत्र षड्रविशत्या खाकी अपवर्तिता गुणकस्थाने रूपम् १ हरस्थाने साधश्चित्वारः । फल पानीयपलानि । पुनरन्योऽनुपातः । यदि पानीपलषष्टया गतिकलातुल्या विकला लभ्यन्ते तदैभिः किमिति ॥ पूर्व' लघ्वी दोज्य गुणः सार्धाश्चत्वारो हरः ॥ इदानीं षष्टिर्हरः ॥ अतो ग्रहगतेर्दोज्य गुणः ॥ हरयोर्घातो हरः खनगाश्विन २७० इत्युपपन्नम् ॥ ओोजपदेऽसवः कलाभ्य ऊना एव भवन्ति, अतस्तत्र ऋणम् । युग्मपदे त्वधिका अतस्तत्र धनम् ॥ ६५ ।।
इदानीं तिथिकरणभयोगानां साधनमाह--
रवि १२ रसैः ६ विरवीन्दुलवा हृताः फलमितास्तिथयः करणानि च । |
वा० भा० व्यकेंन्दोभगा द्विष्ठाः । एकत्र रविभिभज्यिास्तत्र फल गतास्तिथयः । न्यत्र रसैभाज्याः । फल गतकरणानि । तानि त्वेकोनानि बवादितो भवन्ति। कृष्णचतुर्दश्यर्धादुपरि यान्यवशिष्यन्ते त्रीणि चतुर्थ प्रतिपत्प्रथमार्थे च । एतानि चत्वारि शकुनितः ।। शकुनिच। तुष्पदनार्गाकस्तुघ्नानीति शेषः । यस्य ग्रहस्य नक्षत्रं ज्ञातुमिष्यते तस्य कलाः कार्याः । तथा चन्द्राकयोगस्य कलाः कार्या: । उभयत्र शताटकेन ८०० हते प्रथमस्थाने गतभानि द्वितीयस्थाने गतयोगाः ।
अथ यान्यवशिष्टानि तानि गतानि। तानि स्वस्वहरच्युतानि गम्यानि स्युः । तेषां गतानां सम्बन्धिन्यो विकला: स्वस्वगतिभिभजिया: । यल्लभ्यते ता गतघटिका भवन्ति । यद्यष्याणाँ विकला भक्तास्तदैष्या घटिका भवन्ति ।
अत्रोपपत्तिः--यदि व्यर्केन्दोश्चकांशैः ३६० त्रिशत् ३० तिथयो लभ्यन्ते तदैभिः किमिति । अत्र त्रिशतापर्वातिते हरे जातो द्वादश हरः ॥ अथ यदि चक्रांशैः ३६० करणानि लभ्यन्ते तदैभिः किमिति । अत्रापि षष्टव्यापर्वातिते जातो हरः षण्मितः । अथ यदि चक्रकलाभिः २१६०० ससविशतिभानि लक्ष्यन्ते योगा वा तदाभि: किमिति । अत्रापि ससवशत्यापवर्तने कृते जातोऽष्टशती हर उभयत्र । अथ घटीकरणार्थमनुपातः । यदि गतिकलाभिः षटिघटिका लभ्यन्ते तदा गतैष्याभिः किमिति फलं गतैष्या घटिकाः । अथ कलाः षष्टच्या गुणिता विकलाः स्युरित्यत उक्तम् ‘अथ हृताः स्वगतैष्यविलिसिकाः' इति सर्वमुपपन्नम् ॥ ६६-६७ ।।
इदानी नतकर्माह—
तिथ्यन्तनाडीनतबाहुमौव्र्या लध्व्याकशीतांशुफले विनिघने ।
क्रमेण भक्ते नखगोसमुद्रैः ४९२० क्वङ्गाग्निवेदैः ४३६१ फलहीनयुक्तः।