पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/183

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६८
सिद्धान्तशिरोमणौ ग्रहगणिते

षष्टघधिकशतत्रयं च हरः ।। इदानी हरयोघोते उत्पन्ना नखगोसमुद्राः । एवं चन्द्रस्यापि* । तत्र परिध्यन्तरं द्विपञ्चाशत् कलाः ५२ ॥ ६८-६९ ।।

 इदानीं स्फुटग्रहस्य तात्कालिकीकरणमाह

यातैष्यनाडीगुणिता द्युभुक्तिः षष्ट्या ६० हृता तद्रहितो युतश्च ।
तात्कालिकःस्यात् खचरःशशीनौ तिथ्यन्त एवं समलिप्तिकौ स्तः ॥७०॥

पूर्णान्तकाले तु समी लवाद्येर्दशन्तकालेऽवयवैगृहाद्येः

वा० भा० -- स्पष्टम्
वासनापि सुगमा त्रैराशिकेन । ७० ॥
इदानी सूक्ष्मनक्षत्रानयनमाह
स्थूलं कृतं भानयनं यदेतज्ज्योतिर्विदां संव्यवहारहेतोः ॥७१।।
सूक्ष्मं प्रवक्ष्येऽथ मुनिप्रणीतं विवाहयात्रादिफलप्रसिद्धयै ।
 अध्यर्धभोगानि ११८९ ।। ९२ षडत्र तज्ज्ञाः
प्रोचुविंशाखादितिभधुवाणि  || \9Հ
षडर्घभोगानि च ३९५ ॥ १७ भोगिरुद्र
वातान्तकेन्द्राधिपवारुणानि ।
शेषाण्यतः पञ्चदशैकभोगा
न्युक्तो भभोगः शशिमध्यभुक्तिः ७९० ।। ३५ ॥ ७३ ।।
सर्वर्क्षभोगोनितचक्रलिप्ता वैश्वाग्रतः स्यादभिजिद्भभोगः ।
कलीकृतादिष्टखगाद्विशोध्य दास्रादिभोगान् गतभानि विद्यात्।७४।।


१. त्रिज्यातुल्यया नतभागज्यया १२० इदं परिध्यन्तर भागात्मक है: तदेटया किमिति । अत्र त्रिज्यायाः षष्टिगुणाया द्विपञ्चाशतापवतें कृत इटिनतज्याया हरो लभ्यते । इष्टनतज्या बडैट इदं स्फुटपरिध्यन्तरम् । यदि जिनकलोनरर्द: ३१ ॥ ३६ परिधिभागैरिद फल लभ्यते तदा स्फुटपरिध्यन्तरेणानेन द्वै किमिति । अत्रापि हरयोर्घातो हरः स्यादिति जाताः क्वङ्गाग्निवेदाः ४३६१ ।।

२. अत्र लल्ल:--

 मासान्ते रविशशिनौ समौ भवेतां पक्षान्ते लवकलिकाविलिप्तिकाभिः ।

 अन्यस्यामपि च तिथौ सदावसाने तुल्यौ स्तः खलु कलिकाविलिप्तिकाभिः ।

( शि० धी० ग्र० ग० स्प० '२७ श्लो०) ।