पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/192

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४७
त्रिप्रश्नाधिकारः


 तदप्यतिमन्दम् । यस्मिन् काले लग्नं कर्तुमिष्टं तस्मिन्नेव काले युगप'[क्तात्कालिकार्कस्तच्छाया च लक्षणीया । ततः सावनघटीज्ञानं सुलभम् । रात्रावपि नक्षत्रध्रुवाद्य यन्त्रोपलब्धा-तात्कालिकग्रहाद्वा तात्कालिकलक्षितच्छायया नक्षत्रग्रहदिनगतमानीय तत्राकस्तमनकालभग्रहोदयकालयोरन्तरकाल संस्कृत्य सूर्यसावनघटीज्ञानं संभवत्येव । अत एवोक्तं सिद्धान्तरहस्ये

  

 खेचरोऽर्कास्तकाले सषड्भार्कतो योऽधिकोऽल्पोऽर्कनिश्युदेतीह सः । अस्तमेत्यन्यथाऽथो विधेयः क्रमात्पूर्वोपश्चात्स्थदृक्कर्मभाक् स ग्रहः ॥ उद्गमे यातकालः खगः त्वस्तके षड्भयुक्तात् सषड्भार्कभोग्यान्वितः ॥ युक्तमध्योदयोस्योद्गमास्ते भवेद्रात्रियातोऽथ तत्कालखेटो स्फुटः ॥ प्राग्दृक्खचराज्ञभाढयभान्वोरल्पोऽर्कस्त्वपरस्तनुस्तदन्तः । कालः स खगोदये द्युशेषो रात्रीतः क्रमशो ग्रहेऽल्पपुष्टे ॥ तेनोनोऽथ च सहितो ग्रहद्युयातः स्यादकस्तमयतो निशि प्रयातः ।।।

  यद्वा सूर्योदयानन्तरं एतावतीष्वर्कसावनघटिकासु कोट्टग्लग्नमित्यनुक्त्वा तव सावनघटीज्ञानमेव नास्तीति, यः प्रतिब्रूयात्स कस्योपहास्यो न स्यात् । तस्मान्निरर्थकमाशङ्कनमिदम् । यत्र तु लग्नादर्कसावनघटिकाः साध्यन्ते, तत्रापीदमाशङ्कनं निरर्थकमेव । अथास्मिल्लग्ने एतावतीष्वर्कसावनघटीषु पाणिग्रहादिकार्यमित्युक्ते सावनघटिकाः ज्ञातुं न शक्यन्ते विषमपरिमाणत्वादिति चेत् । द्युनिश्शनिमज्जनमित्यादि घटीपरिमाणेन सावनघटिका अपि ज्ञातुं शक्यन्त एव । अत्र यदतीव सूक्ष्ममन्तरं मनुष्यदृग्विषयाद्यतीतं तत्त्यागेऽपि न कोऽपि दोषः ।

 तथा च वक्ष्यते-स्वल्पान्तरत्वादबहूपयोगादित्यादिना। तस्मादसकृत्साधने इतरेतराश्रयदोषोऽप्यविचारित रमणीय इति २सर्व निरवद्यम् ।

 मेषादिकानामुदयासवः स्युरित्युक्तेः सिद्धा ये 3'अभ्राद्रिभूपा' इत्याद्या उदयास्ते वास्तवानां जनप्रसिद्धरेवत्यन्तमधिकृत्य प्रवृत्तानां मुख्यमेषादिराशीनां भवन्ति, न भवन्ति वेति विचार्यते—आद्ये भुक्तभोग्यकालानयनेऽयनांशयोजनं व्यर्थं स्यात् ।। *चरमे पारक्योदयेन कथ भुक्तभोग्यकालानयन युक्तं स्यात्। "परकीयत्वविशेषेण मेषराशिस्थग्रहस्य भुक्तभोग्यकालसाधनं द्वादशभिरपि राश्युदयैः कथं च न स्यात् ।

 अथ सायनमेषादिराशीनामुदया भवन्तीति चेत्, मैवम् । सायनमेषादीनामप्रसिद्धेः । अयनांशानामस्थिरत्वेन तारागणपञ्जरे सायनमेषादिराशीनां सङ्केतस्य कर्तुमशक्यत्वात्तेषां सर्वजनेष्व६प्रसिद्धिः । सायननिरयनविभेदेन राशीनां द्वैविध्याङ्गीकारचातुविध्यमपि को ७निरुन्ध्यात् । क्रान्तिपातसंस्कृते ग्रहे मेषादिराशिपदप्रयोगदर्शनाद्यथा सायना मेषादिराशयः स्वीक्रियन्ते तथा शरपातसंस्कृते ग्रहेऽपि प्रयोगाच्छर


१. कोष्ठान्तर्गतोंऽशो ग पुस्तके नास्ति २. सर्वे इति ग पु० । ३. मे इति ग पु० । ४. चरम इति ग पु० । ५. परकाय इति ग पु० । ६. प्रसिद्ध इति ग पु० । ७. निध्यादिति ग पु० ।