पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/196

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५१
त्रिप्रश्नाधिकार:


इदानी विलोमलग्नमाह -

 भुतासुशुद्धेर्विपरीतलग्न भुक्तांशगेहाप्तलवोनितोऽर्कः ।। ७ ।।

 वा० भा० - यदोदयात् पूर्वघटीषु लग्नमिष्ट तदा तात्कालिकमर्क कृत्वा तस्य भुतासवः साव्यास्तानिष्टासुभ्यो यावन्त उदया विशुध्यन्ति तावन्तो विलोमेन विशोधयेत् । शेषात् खरामगुणितादविशुद्धोदयभक्ताद्ये लब्धाअंशास्तस्तथार्कभुक्तांशैश्च तथा विशुद्धोदयतुल्यै राशिभिश्चीनीकृतो रविलग्नं भवति ।

 वासनाप्यत्र सुगमा । ७ ।।

  वा० वा०-इदानीं विलोमलग्नमाह-भुतासु शुद्धरिति ॥ ६३-७ ।

इदानों दिग्ज्ञानमाह--

 वृत्तेऽम्भः सुसमीकृतक्षितिगते केन्द्रस्थशङ्कोः क्रमा

द्भागं यत्र विशत्यपैति च यतस्तत्रापरैन्द्यौ दिशौ । तत्कालापमजीवयोस्तु विवराद्धाकर्णमित्याहता
 लम्बज्याप्तमिताङ्गुलैरयनदिश्यैन्द्री स्फुटा चालिता' ।। ८ ।। तन्मत्स्यादथ याम्यसौम्यककुभौ सौम्या धुवे वा भवेदेकस्मादपि भाग्रतो भुजमितां कोटीमितां शङ्कुतः । न्यस्येद्यष्टिमृजुं तथा भुवि यथा यष्टयग्रयोः संयुतिः कोटि: प्राच्यपरा भवेदिति कृते बाहुश्व याम्योतरा । ९ ।

 वा० भा०-उदकेन समीकृतायां भूमाविष्टप्रमाणं वृत्तं विलिस्य तस्य केन्द्रे द्वादशाङ्गुलशङ्कुं निवेश्य तस्य छाया तस्मिन् वृत्ते यत्र प्रविशति पूर्वाह्णेऽपराह्न यतो निर्गच्छति तत्र पश्चिमपूर्वदिशौ किल भवतः । परन्तु यस्मिन् काले छायाप्रवेशो जातो यस्मिन् काले च निर्गमस्तात्कालिकयोरर्कयोः क्रान्तिज्ये साध्ये । तयोरन्तरात् तस्योश्छायायाः कर्णेन गुणिताल्लम्बज्यया भक्ताद्यल्लब्धमङ्गुलादि फल तेनैन्द्री दिगुत्तरतश्चालिता स्फुटा भवति यद्युत्तरेऽयने रविश्र्वर्तते । यदि दक्षिणे तदा दक्षिणतः । एवं स्फुटा’ प्राची । अन्यथा स्थूलेत्यर्थ: । तन्मत्स्याद्याम्यसौम्ये दिशौ ।

 अथ प्रकारान्तरेणाह-- ध्रुवमवलम्बसूत्रेण विद्ध्वा ध्रुवाभिमुखकीलकः सौम्या । स्वस्थानकीलको याम्या । तन्मत्स्यात् पूर्वापरे । प्रथमं भाद्वयाग्रदर्शने दिग्ज्ञानमुक्तम् ।


१. अत्र श्रीपतिः --

छायानिर्गमनप्रवेशसमयार्कक्रान्तिजीवान्तर क्षुण्णं स्वश्रवणेन लम्बकहृतं स्यादङ्गलाद्यं फलम् । पञ्चादिबन्दुमनेन रव्ययनतः सञ्चालयेद्व्यत्ययात् स्पष्टा प्राच्यपराथवायनवशात् प्राग्बिन्दुमुत्सारयेत् । (सि० शे० त्रिप्रश्न० ३ श्लो०)।