पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/200

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५५
त्रिप्रश्नाधिकारः 

 निरवधित्वेन ‘यत्रोदितोऽर्कः किल तत्र पूर्वेति' लक्षणत इदमुदयस्थानं पूर्वा नेदमुद

स्थानं पूर्वेति विनिगमकाभावेन च मिथुनान्ताहोरात्रक्षितिजसम्पाताद्धन्वन्ताहोरात्र

पूर्वीक्षितिजसम्पातावध्येकस्मिन्नभीष्टवृत्ते भाग्रं यत्रापैतीत्यनेन गणितेन स्थूलप्राचीप्रती

चीज्ञानेऽपि कुण्डादिमध्यसूत्रसाधनार्थं किमप्युदयास्तसूत्रमृजुग्राह्यमिति मयोक्तम् ।


 ननु निरक्षदेशादितरत्र यतो हि यत् प्राच्यां तस्मात्तत्प्रतीच्यां न भवेदिति

वक्ष्यते, तेन नेदं प्रागपरयोः सूत्रं स्यात् । यथोज्जयिन्याः भूपरिधिचतुर्थाशे प्राच्यां

यमकोटिरेव भवति । तत्रैव पूर्वक्षितिजोज्जयिनीसममण्डलसंयोगात् । लङ्कामेर्वन्तर

रेखास्थानां यावन्ति स्वस्वसममण्डलानि, यावन्ति च स्वस्वपूर्वक्षितिजानि, तेषां

संयोगस्तु नाडीमण्डलोन्मण्डलसम्पात एवावश्यं वक्तव्यः । कुज्याग्राक्रान्तिज्या

नामनुपलब्धेस्तेषां प्राक्स्वरितकेऽभावग्रहणात् । सायनमेषादावुदितमर्क लड्रायां

मध्यरेखायाञ्च युगपदेव पश्यतीति सायनमेषादेरुदयस्थानं क्षितिजोन्मण्डलसम्पाते

भवितुमहँति । सायनमेषादावुदितमर्को लङ्कास्था मध्यरेखास्थाश्च

प्राग्रेखायामेवोदितं पश्यन्तीत्युदयस्थान एव नाडीमण्डलसममण्डलसम्पातो भवतुमुचित इति

चतुर्णां मण्डलानां सम्पातः प्राक्स्वस्तिकमिति व्यवहरन्ति । इदं प्राक्स्वस्तिकं

यमकोटयामेव भवति । पश्चिमस्वस्तिकन्तु रोमकपत्तन एव भवति । सर्वत्र

निरक्षदेशे सममण्डलं नाडीमण्डलमेव । तस्माल्लडूातो मध्यरेखातश्च कुचतुर्थभागे

प्राच्यां यमकोटिरेव, प्रतीच्यां रोमकपत्तनमेव भवति । यमकोटे: प्रतीच्यां कुचतुर्थ

भागे रोमकपत्तनात्तावत्येवान्तरे प्राच्यां च लङ्कव भवति सममण्डलैक्यात् ।

सममण्डलयोर्भेदेन नोज्जयिनी भवेदिति निरक्षदेशादितरत्र प्रागपरसूत्रसाधनमयुक्त

मिति चेत्। उच्यते ।


 उज्जयिनीस्थद्रष्टुनिज्ञातप्रागपरचिह्नयोः सममण्डलैक्यात् प्रागपरसूत्रसाधनेन

किमपि बाधकम् । उज्जयिनीयमकोटयोः सममण्डलभिन्नत्वेऽपि प्राक्पश्चिमस्वस्ति

कनिबद्धसूत्रं लङ्कावासिनामवन्तीस्थानां चैकमेव प्रागपरसूत्रमिति तत्साधने न

कोपि दोषः । कालविपरीतपरत्वापरत्वानुमेया दिक् । सूर्यस्य स्वक्षितिजोपर्यवस्थान

कालो दिनम् । स्वक्षितिजोपर्यवस्थितिरेव दिनेशदर्शनमित्याहुः ।

तत्र दिवसे प्रेति प्रथमं अञ्चति दर्शनं गच्छतियावत् । प्रति 

पश्चादञ्चति यस्मिन् प्रदेशे सा प्रतीची । प्रथमं स्वक्षिति

जोपर्यवस्थानं यत्र भूभागे तत्र प्राची । चरमं स्वक्षितिजोपर्यवस्थानं यत्र तत्

प्रतीची । यमकोटिपुर्यां लङ्कायाः पूर्वा दिक्, सिद्धपुर्य्याः पश्चिमा दिक् । लङ्कायां

रोमकपत्तन्स्य पूर्वा यमकोटयाः पश्चिमा । रोमकपत्तने सिद्धपुर्याः पूर्वा, लङ्काया:

पश्चिमा । सिद्धपुय्र्या यमकोटयाः पूर्वा, रोमकपत्तनस्य पश्चिमा । सर्वेषा मेरु

रुत्तरः । मेरोस्तु सर्वाण्येतानि नगराणि दक्षिणानि ।। सूर्योदयास्तमनानि सम्पूर्णः

क्षितिजवृत्ते सम्भवन्तीति पूर्वपश्चिमोत्तराण्यपि सम्भवन्त्येतानि । इदं यद्गणित

शास्त्रे प्राचीसाधनमुच्यते तन्मनुष्यदेशविषयम् । मेरौ प्राच्यादिव्यवहारः पारि