पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/204

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५९
त्रिप्रश्नाधिकार:

अाबाधयोर्योगस्तु दोः कोटिवर्गयोगेन कर्णभत्तेन तुल्य इति कर्णतुल्यभूमेः समच्छेदेनास्मिन्नपनीते शून्यशेषतैव स्यात्तत्तुल्ययोव्यवकलने शून्यशेषताया अवश्यं भावित्वात्। एवं कर्णवर्गस्य दो:कोटिवर्गयोगतुल्यत्वाद्दो:कोटिवर्गयोगपदं कर्ण इति सिद्धम् । दो:कोटिवर्गयोगात्मककर्णवर्गाद्यावद् भुजवर्ग: शोध्यते तावत्कोटिवगोंऽवशिष्यत इत्याद्यखिलमवदातम् ।

 ननु कर्णवर्गस्य भुजकोटिवर्गयोगात्मकत्वमुच्यते । तनियतमनियतं वा । नोट: ।

  • पञ्चाशदेकसहिता वदनं यदीयं भूःपञ्चसप्ततिमिता प्रमितोऽष्टषष्टया ।

सव्यो भुजो द्विगुणविशतिसंमितोन्यः
इत्यस्मिन्

  • द्विपञ्चाशन्मितव्येकचत्वारिंशन्मितौ भुजौ ।

मुखन्तु पञ्चविंशत्या तुल्यं षष्टया मही किल।।।

 इत्यस्मिन्बुदाहरणे च भुजकोटिवर्गयोगात्मकत्वाभावान्नापर: गणितेन कर्णानवग मात् ।

  • 'तत्कृत्योर्योगपदम् इति सूत्रमुन्मत्तप्रलपितमिव स्यात्। कथञ्च तस्यानियतत्वे
  • ‘कोटिश्चतुष्टयं यत्र दोस्त्रयं तत्र का 'श्रुतिः'।।

 इत्युदाहरणे 'तत्कृत्योयोंगपदं कर्ण:' इति सूत्रणानीतकर्णस्याभ्रान्तसकलजनोपलब्धकर्णेन साम्यम् । अत्रोच्यते कर्णस्य दोःकोटिवर्गयोगात्मकत्वं नियतम् । यत्र तु लम्बात्कर्णज्ञानं तत्र लम्बः कोटिराबाधा भुजः, चतुरस्रकर्णं एव कर्णं इति । अत एव

  • 'यल्लम्बलम्बाश्रितबाहुवर्गविश्लेषमूलम् ।।।

 इत्याद्युक्तम् । यत्र तु यदा प्रथमकर्णाद् द्वितीयः साध्यते तत्रापि लम्बद्वयनिपातान्तरभूर्भुजः, लम्बैक्यं कोटिः, द्वितीयकर्णः कर्ण इति । अत एव

`°'इष्टोऽत्र कर्णः प्रथमं प्रकल्प्य' इत्यारभ्य ‘अाबाधयोरेक*कुभस्थयोर्यत्स्यादन्तरं तत्कृतिसंयुतस्य ।।।

-

लम्बैक्यवर्गस्य पदं द्वितीयः कर्णो भवेदित्युक्तम् ।
‘त्रिभुजे भुजयोर्योगः' *।।


१. ली० क्षे० स० च० फलानयने तृतीयोदाहरणम्।

२. ली० क्षे० समानलम्बस्याबाधादि ज्ञानार्थमुदाहरणम् ।

३. ली० क्षे० १ श्लो० ।

४. ली० क्षे० कोटिभुजयोज्ञतेि कर्णज्ञानार्थदमुदाहरणम् ।

५. सृति इति क ख पु० । ६. ली० क्षे० २५ श्लो० ।

७. ली० क्षे० २६ श्लो० ।। ८.ककुप इति क ख ग पु० ।

९. ली० क्षे० १७ श्लो० ॥