पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/207

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६२
सिद्धान्तशिरोमणौ ग्रहगणिते


प्रथमभुजकोटिघातो भवतीति सम्यगुक्तं ‘भुजप्रतिभुजवधयोर्योगो' विषमचतुर्भुजकर्णघातः' इति सर्वमनवद्यम् ।

 समकोष्टमितिः फलाख्येति प्रागभिहितं तन्न मृष्यामः । वृत्तक्षेत्रे चापक्षेत्रे च समकोष्टकानां ज्ञातुमशक्यत्वादिति चेत् । उच्यते । वृत्तक्षेत्रपरिधि शतधा विभज्य मध्याच्छतसङ्ख्यानि सूत्राणि च तेषु प्रसार्यं द्वयोर्द्वयोः कोटिकयोः प्रातिलोम्येन योजितयोः पञ्चाशन्मितान्यायतान्युत्पद्यन्ते । तानि तु वृत्तव्यासार्द्धतुल्यदैघ्र्याणि, परिध्यर्द्धपञ्चाशन्मितांशविस्ताराणि भूवन्ति । समश्रुतावायते भुजकोटिघात: फलमिति फलान्यानीय योगे क्रियमाणे २परिधिगुणितव्यासपादः फलम्' इत्युत्पद्यते । एवं चक्रकलातुल्यपरिधिवृत्तस्य २१६०० द्विगुणत्रिज्यातुल्यव्यासस्य ६८७६ वृत्तक्षेत्रफलादस्माद् ३७१३०४०० वृत्तान्तः समचतुः रस्रभुजवर्ग त्रिज्यावर्गेण द्विगुणेन तुल्य २३६३९,६८८ मपास्य. शेष १३४९०७१२ इदं चतुर्भूतं जातमेकचापस्य फल ३३७२६७८ इदमेव शरतुल्यकोटिक १००७ मायतक्षेत्रफलं भवितुर्महतीति शरतुल्यकोटया १००७ चापफले भक्त ३३४९॥ १४ लब्धो भुजः । अयन्तु किञ्चिन्न्यूनजीवाञ्शरैक्यदलतुल्यः प्रत्यक्षत उपलभ्यते । ‘*सर्वदोर्युतिदलमित्यादिना' समश्रुतावायते समचतुर्भुजे समकणें च त्रिभुजे च सम्यगेव फलमायाति। 'तत्र समचतुर्भुजे सर्वदोर्युतिदलं द्विगुणो भुजः स एव यावच्चतुर्षु स्थलेषु भुजोनः क्रियते तावत्सर्वत्र भुजा एवावशिष्यन्ते । समचतुर्घातो वर्गवर्गः । अस्य मूलं समद्विघातो भुजकोटिघात एव भवति । एवमायतेऽपि *सर्वदोर्युतिदलं भुजकोटियोग एव चतुर्धा भवति। अयं बाहुभिविरहितो जात: स्थलद्वये भुज एव। स्थलद्वये कोटिरेव। तत्र चतुर्णामपि वधे क्रियमाणे भुजकोटिघातवर्ग एव भवति, तन्मूलं भुजकोटिघात एवायतफलम्। त्रिभुजे तु 'त्रिभुजे भुजयोर्योंगस्तदन्तरगुण' इत्यादिना साध्यमाने क्षेत्रफलवर्गे सर्वदोर्युतिदलमित्याद्यानीतः क्षेत्रफलवर्गस्तुल्य एव भवति । स यथायोगान्तरादेः प्रथमाक्षराण्युपलक्षणार्थमृणगतान्यूर्ध्वबिन्दूनि लिख्यन्ते । भुजयोर्योगोऽन्तरगुणः । अङ्गु० यो १ अयं भुवा हृतो जातः अ० यो० १अनुयया भू १ अं० यो० घा० व० १ भु० व० ४ भूः युता समच्छेदेनाधिता जाता बृहदाबाधा। अं० यो० R so वo १ Hం २ अस्य: वगोंऽयम्-अं० То घo ऑ० यो० भु० वo ४ व० १ अं० यो० घा० कुव घा० ९ कुवव 1 बू० भुव भू० व० घा० ४। अयं भूम्यर्धवर्गेणानेन भु० व० १ गुणितो जातः । अं० यो० घा० व० • । আঁo ঈীo घा० कुव० घा० त्रै । कु० व० व० प्रै । बू०भु० व० कुवघात० ४ क्षेत्रफल ४ वर्ग: ।


१. ली० क्षे० ३१ श्लो०  २. ली० क्षे० ४१ श्लो० ॥

३. ली० क्षे० १९ श्रुठो० ।।   ४. ली० क्षे० १९ श्लो० ।

५. ली० क्षे० १७ श्रुलो० ।।