पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/209

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६४
सिद्धान्तशिरोमणौ ग्रहगणिते


 'तथा च दर्शनम् । अत्र बृहज्जात्यभुजकोट्य ग्रयोगाल्लघुजात्यभुजं भुजे दत्वा चिह्न कार्यम् । तच्चिह्नोपरि कोटयग्रकर्णाग्रयोगात् यत्कर्णसूत्रं तद्दशमितमेव भवति । 'दशसप्तदशप्रमौ भुजौ त्रिभुजे यत्र नवप्रभा (म ?) हीत्यत्र"त्रिभुजे भुजयोर्योंगस्तदन्तरगुण इत्यनेनाबाधावर्गान्तरं सिद्धम् । इदमाबाधायोगेन यावद् भज्यते तावदाबाधान्तरं लभ्यते। ततः सङ्क्रमसूत्रेणाबाधा ज्ञानम्। आबाधान्तरेण वा यावद् भज्यते तावदाबाधायोग इति स्पष्टम् । तत्रान्तर्लम्बेऽबाधायोगो भूमिसमः, इति भूम्या भज्यते तदाबाधान्तरं लभ्यते। बहिलम्बे भूमिराबाधान्तरतुल्येति भूम्या भागे हृतेऽबाधायोगो लभ्यते। तत्र योगोन्तरेणोनयुतोद्धित इति कर्तुमुचिते। यद्यन्तरं योगेनोनयुतमद्धितं क्रियते तहणगताबाधोत्पादनायेति स्पष्टम्। यतो धनर्णयोगोंग एवान्तरम् । अलमतिविस्तरेण प्रकृतमनुसरामः । ‘भाकृतीनकृतिसंयुतेः पदमिति' सम्यगुपपादितम् ॥ ११ ॥

इदानी संज्ञाविशेषानाह‌-
शङ्कुर्नरो ना कथितः स एव खार्धाद्रवेर्या विषुवद्दिनार्धे ।
नतिः पलोऽक्षश्च स एव तज्ज्ञैस्तत्रोन्नतिर्यास्य स एव लम्बः ॥१२॥
वा० भा०-स्पष्टम् ॥१२।

 वा० वा०-सुखार्थ शङ्कोर्नामान्याह-शङ्कुर्नरो ना कथितः स एवेति । अक्षशिलम्बज्ञानार्थमाह—'खाद्धीद्रवेर्या इति ।

 निरक्षदेशे दिनाद्धे सर्वदा नतांशाः क्रान्त्यंशतुल्या एव नाडीमण्डलाद् ग्रहस्य - स्वक्रान्त्यैवान्तरित्वात्। साक्षदेशेर खस्वस्तिकान्निरक्षदेशखस्वस्तिक पलांशैरेवान्तरितम् । ध्रुवोन्नतिर्नाम पलः तत्तुल्यसाक्षनिरक्षयाम्योत्तरक्षितिजयोरन्तरं सद्भावेन खस्वस्तिकयोरप्यन्तरितत्वात् । साक्षदेशे दिनाद्धे ग्रहनतांशाः याम्योत्तरगोलयोः क्रान्त्यंशपलांशयोगवियोगेन भवन्ति ।

 वक्ष्यते च ‘पलावलम्बावपमेन संस्कृती नतोन्नते ते भवतो दिवादले' इत्यत्र यदा क्रान्त्यभावस्तदेव विषुवद्दिनम् । तस्माद्विषुवद्दिनाद्धे या नतिः सोऽक्ष इति स्पष्टम् । ग्रहस्य स्वदिनाद्धे स्पष्टक्रान्त्यभावे रवाद्धान्नतिरेवाक्षांशा भवन्त्यतो रवेरिति पदोपादानं व्यर्थमिति चेत् । स्यादेतद् यद्याचार्येण स्पष्टक्रान्त्यभावो विषुवमित्युक्तं स्यात् । ‘क्रियतुलाधरयोविषुवं स्मृतमिति' मध्यमक्रान्त्यभावं विषुवं वदतो रवेरिति पदोपादानं सार्थकम् ॥ १२ ॥ इदानीमक्षक्षेत्राण्याह—

भुजोऽक्षभा कोटिरिनाङ्गुलो ना कर्णोऽक्षुकर्णः खलु मूलमेतत् ।
क्षेत्राणि यान्यक्षभवानि तेषां विद्येव मानार्थयशः सुखानाम् ॥१३॥


१. परि० द्रo । २. साक्षे, इति ग पु० देशेति क ख ग पु० ।