लम्बज्यका कोटिरथाक्षजीवा भुजोऽत्र कर्णस्त्रिभुजे त्रिभज्या । |
वा० भा० - अत्र किल निरक्षदेशे। यदेव विषुवन्मण्डल तदेव सममण्डलम्। तथा क्षितिजादन्यदुन्मण्डलं नाम वलयं नास्ति । तत्र ध्रुवौ च क्षितिजासक्तौ । अथ निरक्षदेशाद्द्वष्टा यथा यथोत्तरतो गच्छति तथा तथोदग्ध्रुवमुन्नतं पश्यति । तथा यैर्भागैध्रुव उन्नतस्तैरेव भागैरक्षसंज्ञैः खस्वस्तिकाद्दक्षिणतो विषुवन्मण्डलं नतं पश्यति ॥ विषुन्मण्डलस्य तिर्यक्स्थतत्वात् तदाश्रितान्यहोरात्रवृत्तानि स्वस्थाने तिरश्चीनानि भवन्ति । अत: साक्षे देशे खगोलवलयानां तिरश्चोनभगोलवलयानां च संपातात् त्र्यस्त्राणि क्षेत्राण्युत्पद्यन्ते । तान्यक्षक्षेत्रसंज्ञान्युपयोगित्वात् कथ्यन्ते ।
अक्षभा नाम पलभा प्रसिद्धा सा भुजः ॥ द्वादशाङ्गुलः शङ्कः कोटिः । अक्षकर्णस्तत्र कर्णः ॥ इदं तेषामक्षक्षेत्राणां वक्ष्यमाणानां मूलम् ॥ केषां किमिवेत्याह--‘विद्येव मानार्थयशः सुखानामिति' । अन्यैरप्येवमुच्यते
विद्या नाम नरस्य कीर्तिरतुला भाग्यक्षये चाश्रयो |
अथान्यत् क्षेत्रम् ।। क्षेत्रदर्शनार्थं यथोक्तं खगोलं भगोलं च बद्ध्वा क्षेत्राणि दर्शयेत् ॥ तत्र दक्षिणोत्तरमण्डले विषुवद्वृत्तसंपातादधो यावांल्लम्बः क्षितिजसमसूत्रपर्यन्तः सा तत्र कोटिः । लम्बनिपातकुमध्ययोरन्तरं साक्षज्या तत्र भुजः । भूमध्याल्लम्बाग्रगामि सूत्रं त्रिज्या सा तत्र कर्णः । इदमप्यक्षक्षेत्रम् ।
इष्टाहोरात्रवृत्तं यत्र क्षितिजे लग्नं तस्य प्राक्स्वस्तिकस्य चान्तरमग्राचापांशाः । तेषां ज्याग्रा ॥ तावती च प्रत्यक्रक्षितिजे । अग्राग्रयोर्निबद्धं सूत्रमुदयास्तसूत्रम् ॥ अहोरात्रवृत्तोन्मण्डल सपातस्य प्राच्यपरसूत्रस्य च यदन्तरं सा क्रान्तिज्या । सा तत्र कोटिः ॥ अग्रा कर्णः । तदग्रयोन्तरं स' ॐजया ॥ स भुजः । इदमक्षक्षेत्रम् ।