तथाहोरात्रवृत्तसममण्डलसंपातादधोऽवलम्बः समवृत्तशङ्कुः ।सा कोटिः । अग्रा भुजः । अहोरात्रवृत्ते ज्याखण्डकं तद्धृतिः कर्णः । इदमक्षक्षेत्रम् ।
तथा कुञ्ज्योनिता तद्धृतिरहोरात्रवृत्ते ज्यार्धं सा कोटिः ।उन्मण्डले क्रान्तिज्या स भुजः । समवृत्तशङ्कुः कर्णः, इदमक्षक्षेत्रम् ।
तथाहोरात्रोन्मडलयोः संपातादवलम्ब उन्मण्डलशङ्कुः स भुजः । उन्मण्डले क्रान्तिज्या कर्णः ॥ उन्मण्डलशङ्कुमूलस्य प्राच्यपरसूत्रस्य च यदन्तरं तदग्रादिखण्डं सा तत्र कोटिः । इदमक्षक्षेत्रम् ।
न्मण्डलशङ्कुः कोटिः । शङ्कुमूलोदयास्तसूत्रयोरन्तरमग्राग्रखण्डं स भुजः । कोटिभुजाग्रयोरन्तरसूत्रं सा कुज्या । स तत्र कर्णः । इदमक्षक्षेत्रम् ॥
तथोन्मण्डलशङकुना हीन समशङ्कुस्तत् समशङ्कीरूध्र्व खण्डं सा कोटिः । कुज्योना तद्धृतिस्तद्धृतेरूध्र्वखण्डं स कर्णः । अग्रादिखण्डं स भुजः ॥ इदमक्षक्षेत्रम् ॥
एतान्यष्टौ तावत् कथितानि । एवमन्यान्यपि भवन्ति ।। १३-१७ ॥
वा० वा०-इदानीमक्षक्षेत्राणि पञ्चभिवृत्तैराह-भुजोऽक्षभाकोटिरित्यादि। अक्षवशादुत्पन्नत्वादक्षक्षेत्राणि। एतदेव भाष्यकारेण सम्यगुपपाद्यते ग्रन्थसन्दर्भण। लम्ब. ज्याद्वादशांशेन लम्बज्याकोटिं, पलज्याभुजं, त्रिज्याकर्णीचापवत्र्य ‘भुजोऽक्षभा कोटिरिनाङ्गुलो न्र्ा कर्णोऽक्ष कर्णं इति' क्षेत्रमुत्पन्नम् । अयर्नूलवदिनैः प्राक्मेषसंक्रान्तिकालाद् भवति । दिवसमध्ये या प्रभाक्षप्रभा सेति ग्रहगणिते प्रसिद्धत्वादिदमक्षक्षेत्रमन्येषां मूलमित्युक्तम् ।
अत्र दृष्टान्तमाह-विद्येव मानार्थयशः सुखानां' विद्याविहीना अपि मानार्थं यशः सुखभाजो दृश्यन्त इति कथं त्वयोक्तमित्यत्र पूर्वोक्तत्वान्मयोक्तमित्याशयेन संमति प्रदर्शयति भाष्यकारः । ‘विद्या नाम नरस्य कीतिरतुलेति' ।। क्षेत्रसंस्थानप्रदर्शन भाष्ये स्पष्टम् ।
कियत्यक्षक्षेत्राण्युक्तानि तत्राष्टावित्याह-निरक्षदेशे विषुवन्मण्डलादन्यत् सममण्डलं नास्ति, उन्मण्डलादन्यत् क्षितिजं च नास्ति, ध्रुवयोभूगर्भक्षितिजसंसक्तत्वात् । साक्षदेशे खस्वस्तिकाद्विषुवन्मण्डलस्य तिर्यक्स्थितत्वेन तदाश्रितान्यहोरात्रवृत्तानि तिरश्चीनानि' भवन्ति । निरक्षदेशवलयानां भगोलाभिधानां साक्षदेशवलयानां खगोलाभिधानामसाधारणानाञ्च सम्पाता अक्षाणि क्षेत्राण्युत्पद्यन्ते तान्यक्षक्षेत्रसंज्ञानीति भाष्ये स्पष्टम् ।
ननु गोलाध्याये त्रिप्रश्नवासनायामक्षक्षेत्राण्युतानि कथं पुनरुच्यन्ते । तत्राहभाष्यकार उपयोगित्वात् कथ्यन्ते । गोले क्षेत्रसंस्थानप्रदर्शनेन वासनावगतिः प्रयोजनम्।
{{block center|<poem>मध्याद्य२ ह्युसदां यदन्त्र गणितं तस्योपपति विना प्रौढिप्रौढ़सभासु नैति गणको नि:संशयो न स्वयम्।
१. चीनाभि इति ग पु० । २. सि० शि० गोo २ श्लो० ।