पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/214

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१६९
त्रिप्रश्नाधिकार:

  अग्रादिखण्ड भुज -

 इति क्षेत्राणि क्षितिजादुपरि दृश्यन्ते । सममण्डलद्युरात्रवृत्तसम्पातस्य कुजो

परिस्थितत्वात् ।

 एवं याम्यगोले स्वात्पलात् स्वल्पेऽपमे कुजादधो दृश्यन्ते द्युरात्रवृत्तसम

मण्डलसम्पातस्याधः स्थितत्वात् । वास्तवसममण्डगतार्ककालीनक्रान्तिज्योत्पन्नसम

शङ्करेवान्वर्थता लभते ना सममण्डलगतार्ककालीनक्रान्तिज्योत्पन्नसमशङ्क स्वा

त्पलात् स्वल्पेऽपमेऽप्यन्वर्थो भवति ।

 असममण्डलगतार्कशङ्कौ समशङ्कप्रयोगः क्रान्तेः पलात्स्वल्पत्वेन द्युरात्रसम

मण्डलसम्पातसम्भवयोग्यतावशादेव ।

 यद्यपि क्रान्तिः सर्वदा पलात् स्वल्पापि भवति तथापि न सर्वदा सममण्डल

गतोऽर्को भवति । उत्पद्यते च प्रतिक्षणविलक्षणक्रान्तिवशेन समशङ्कः । भूतभविष्य

त्कालयोग्यतया शब्दप्रयोगः।

 यत्र् क्रान्तिः पलादधिका तत्राहोरात्रसममण्डलसम्पाताभावात् क्रान्त्युत्पन्न

समशङ्की देशान्तरीयसमशङ्कत्वयोग्यतामादाय समशङ्कप्रयोगः।

 अद्येतावती क्रान्तिज्यास्ति कियती पूर्वापरछायेति पृष्टे इयती प्रत्यक्ष

गम्यपूर्वापरछाया द्वादशाङ्गुलशङ्कोरिति तदैव वक्तव्यं, यदोत्तरगोले पलादल्पोऽपमः ।

 अन्यथा यः शङ्करुत्पद्यते स परानुपातविधानार्थं नाभिमतदिङ्नयमवश

छायान्तर्गतपूर्वापरछायार्थमिति वक्ष्यते ।

 तस्मात् क्रान्तिज्याभुजे यः कर्णः स एव समशङ्करिति । एवमुन्मण्डल

शङ्क्वादिष्वपि बोध्यम् ॥ १३-१७ ।।

इदानीमेषा साधनान्याह

एषामथैकस्य तु बाहुकोटिकर्णैर्मिथोऽन्यान्यनुपाततः स्युः ।

वा० भा०-एषां क्षेत्राणामेकस्य दो:कोटिकर्णः परस्परमन्यानि भवन्ति ।

इदानी तथाह—

त्रिज्ये पृथक् कोट्टिभुजाहते ते कणोंद्धृते लम्बपलज्यके स्तः ॥ १८

तत्कामुके लम्बपली च तज्ज्ये दोःकोटिजीवावदतो मिथो वा
 
अक्षज्यका कोटिगुणा भुजाप्ता लम्बज्यका वाक्षगुणोऽन्यथातः ।। १९ ।


 वा० भा०-तत्र त्रिज्या सससु स्थानेषु ससभि: कोटिभिर्गुण्या। स्वकीयेन स्वकीयेन

कणेंन पृथक पृथरभाज्या। एवं ससधा लम्बज्या भवति। अथ ससधा त्रिज्या भुजैर्गुण्या स्व

स्वकर्णन भाज्या । ससधाक्षज्या भवति । लम्बज्याक्षज्ययोर्धनुषी कायें । तो लम्बाक्षौ स्तः ।

लम्बोत्क्रमञ्जीवयोना त्रिज्याक्षज्या स्यात् ॥ अक्षोत्क्रमजीवयोना त्रिज्या लम्बज्या स्यात् ।

त्रिज्यावर्गात् पृथक पथक लम्बाक्षज्यावर्गोनान्मूले अक्षलम्बज्ये वा। अक्षज्या सससु स्थानेषु


सि०-२२