सप्तभिः कोटिभिर्गुण्या स्वस्वभुजेन भाज्या ससधा लम्बज्या भवति । ससधा लम्बज्या सप्तभि
भुजैर्गुण्या स्वस्वकोटच्या भक्ता ससधाक्षज्या स्यात् ॥१७-१९||
वा० वा०-एषामथैकस्य तु बाहुकोटिकणेंरित्यादिवृतजातं भाष्ये |
इदानीमन्यदाह
क्रान्तिज्यके कर्णगुणे विभक्ते कोटया भुजेनासमिताग्रका स्यात्। |
वा० भा-क्रान्तिज्याक्षक्षेत्रकणेंन गुणित द्विः स्थाप्या । एकत्र स्वकोट्या भक्ता
सत्यग्रा भवति । अन्यत्र स्वभुजेन भक्ता तत्र समशङ्कुः ॥ एवं ससभिः कर्णेः ससधाग्रा
ससधा च समशङ्कुर्भवति । एष शङ्कुः ससभिः कर्णेर्गुणितः स्वस्वकोटिभक्तः ससधा तद्धू
तिर्भवति ॥ २० ॥
इदानीमन्यदाह-
कर्णेन निघ्नी पृथगग्रका वा भुजेन भक्ता खलु तद्धृतिः स्यात् ।
वा० भा०-अग्रका ससधा ससभिः कणेंगुंण्या स्वस्वभुजेन भाज्या ससधा वा तद्धृति
भवति ।
इदानीमन्यदाह
कोटदा हता तद्धतिरग्रका च कणेंन दोष्णा क्रमशो विभक्ता । २१ । |
वा० भा०-सप्तधा तद्धतिः सप्तभि: कोटिभिर्मुण्या स्वस्वकणेंर्भाज्या सप्तधा समशड्या
कुर्भवति । एवं सप्तधाग्रा सप्तभिः कोटिभिर्गुण्या स्वस्वभुजेन भक्ता । एवं वा सप्तधा
समशङ्कुर्भवति । स समशङ्कुः सप्तधा सप्तभिर्भुजैर्गुण्यः स्वस्वकोटच्या भक्तः सप्तधाग्रा वा भवति ॥
१०६-२१३ ।।
इदानीमन्यदाह
कोटयुद्धृतं तद्धृतिखण्डमूर्ध्वं श्रुत्या हतं वा समवृत्तशङ्कुः ॥ २२ ।। |
वा० भा० - कुज्योनिता तद्धृतिस्तत् तद्धृत्यूध्र्वखण्डम् ॥ तत् सप्तधा सप्तभिः कर्णेर्गुण्यं |
इदानीमन्यदाह—
द्विधापमज्या भुजकोटिनिध्नी कोटया च दोष्णा विहृताद्यमाप्तम् । |