दोःकोटिवर्गैक्यपदं श्रुतिः स्यात् तत्कोटिवर्गान्तरतः पदं दोः । |
इदानीमुपसंहारश्लोकमाह
त्रिषष्टिरत्रानयनप्रभेदास्तावत् स्युरेवं पललम्बमौव्योंः । |
वा० भा०-बहुप्रकारप्रतिपादनार्थमिदम्। २७-२९ । |
इति लम्बाक्षज्याग्रादिभेदप्रकरणम्।
वा० वा०-त्रिषष्टिरत्रानयनप्रभेदा' इति। अत्र सर्वत्र भागहारराशि
प्रमाणं प्रकल्प्य गुण्यगुणकौ यथासंभवमिच्छाफले प्रकल्प्य च त्रैराशिकमूह्यम् ।
'त्रिज्ये पृथक्कोटिभुजाहते ते कणोंद्धत' इत्यनेन सप्तधा अक्षज्या लम्बज्या
तावत्सिद्धा । केवलत्रिज्यारूपकर्णे जाते सप्तधा सिद्धा याऽक्षज्या साऽपि द्विधा
स्थाप्या । एकत्र पलोत्क्रमज्योना त्रिज्या लम्बज्या भवति । अक्षज्यायाः सप्तधा
'सिद्धत्वेनेयमनन्तरोत्तलम्बज्यापि सप्तधा सिद्धा । अन्यत्र सप्तधा सिद्धा ‘अक्षज्यका
कोटिगुणा भुजाप्ता लम्बज्यकेति' सप्तकोटिभिः पृथक् सप्तसु स्थानेषु गुणनीया ।
एवमेकोनपञ्चाशत् प्रकारा जाता अतस्त्रिषष्टिरत्रानयनप्रभेदा इति सुगमम् । केवले
कणें ज्ञाते कोटिज्ञानमुतम्। केवले भुजे च ज्ञाते कोटिज्ञानमुतम्। द्वाभ्यां
भुजकर्णाभ्यां दोःकर्णवर्गान्तरतश्च कोटिरिति सम्यगुक्तम् ॥ २९
इदानों दिङ्नयमेन छायानयन विवक्षुरादौ कोणशङ्कोरानयनमाह
अग्राकृतिं द्विगुणितां त्रिगुणस्य वर्गातू ११८१९८४४ |
१. सिo शि० ग्र० त्रि० २० श्लो० । २. सि० शि० ग्र० ग० १९ श्लो० ।
२. अत्र श्रीपति:-
अग्राकृत्या विहीनं त्रिगुणकृतिदलं वेदशक्रघ्नमाद्यः
सूर्याग्राक्षप्रमाणामभिहतिरपरो भक्तयोरक्षभायाः ।
कृत्या व्द्यश्वाढयया तौ परकृतिसहितादाद्यतो यत् पदं स्या
दन्येनाढयं विहीनं धनदयमककुब्गोलयोः कोणशङ्कुः ।
उत्तरेतरविदिङ्नरो भवेदुत्तरे तु पदहीनयुक् परः ।
दक्षिणे न सममण्डलात् तनो भाश्रुतिश्व घटिकाश्व पूर्ववत् ।
( चि० शे० त्रिप्र० ७४-७५ श्लो० ) ।।