पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/219

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७४
सिद्धान्तशिरोमणौ ग्रहगणिते


 वा० वा०-दिग्देशकालज्ञानार्थ पृच्छकेच्छावशेनाभिमतदिक्कालनियमाद् ।

द्विविधं छायानयन 'विवक्षुरादौ २कोणशङ्कोरानयनमाह-अग्राकृतिमिति ।

कोणवृत्तगतेऽकें शडूः कोणशडूः । कोणवृत्तस्थत्वादकस्य सममण्डलेन यावदन्तरं तावदेव

योम्योत्तरमण्डलैनापि भेवितुर्महति। अग्राशङ्कतलसंस्कारजन्यभुजमितमेव कोण

स्थार्कसममण्डलान्तरं भवति । गोले प्रत्यक्षं समचतुर्भुजमेतत् क्षेत्रमुत्पद्यते _ दृग्ज्यातुल्यसमकर्णं भवति । तत्र ‘तत्कृत्योर्योगपदं कर्णः’ इति भुजवर्गादद्विगुणी

जातो दृग्ज्यावर्गः सत्रिज्यावर्गाच्छोध्यः 3शङ्कवर्गो भविष्यतीत्युपायो दृष्टः ।

अग्राशङ्कतलसंस्कारे भुजो भवति । तत्र शङ्कज्ञाने शङ्कतलज्ञानम् । शङ्कतलज्ञाने

श्रृंग्राशङ्कैतलसंस्कारज्न्यभुजज्ञानम् । भुजज्ञाने कोणशङ्कज्ञानमिति परस्पराश्रृितत्वेन

रसकृत्साध्यते । प्रथमं शङ्ककुतलाज्ञानादग्रातुल्य एव भुजः कल्पितः ।

यत्र साद्वौष्ट्रव्यडूलाधिक सप्तदशाडूला पलभा तत्र परमक्रान्तिकाले

साक्षादे शानाग्नेययोः सूर्योदय. स्यात् । वक्ष्यते प्रश्नाध्याये *‘मित्रमित्रस्त्रिनेत्रस्य दिश्युद्गमं

याति यत्र त्रिनेत्रक्षीमध्यस्थित' इति ।


 कोणवृत्तस्थाकॉदये कोणशङ्कः शून्यम् । अग्रा तु शरवेदभागजीवा तुल्या

.२४३१ यत्र देशे यस्मिन् काले अद्धयद्धराशिज्यातोऽभ्यधिकाग्रा भवति तदा तत्र

याम्यगोले कोणशङ्कोरभावः । उत्तरगोले कोणशङ्कचतुष्टयमुत्पद्यते द्युरात्रवृत्तस्य

कोणवृत्ताभ्यां क्षितिजादूर्ध्वं चतुर्वारं मिलितत्वात् अंशयुग्मरसपलांशविषये मिथुन

कर्काहोरात्रं क्षितिजादुपर्येव भवति । तस्याहोरात्रस्य कोणवृत्तद्वयसम्पातचतुष्टयं

यथा दृश्यते तथाऽत्रापीति भावः ।


 ननु तदा द्विगुणस्याग्रावर्ग:स्य त्रिज्यावर्गादधिकत्वेन कथं कोणशड्रोरानय

नमिति । उच्यते । किमत्र वक्तव्यं वक्ष्यते भास्कर एव '*‘यत्र क्वचिच्छुद्धिविधौ

यदेह शोध्यं न शुद्धेद्विपरीतशुध्य इति । निरक्षे तु क्रान्तिज्याकृतिं द्विगुणितां

त्रिगुणस्य वर्गात् प्रोक्ष्यैव कोणशङ्कः स्यात् । सर्वदा क्रान्तिज्याया भुजतुल्यत्वात्

पलभाया अभावाच्च । निरक्षाद्दक्षिणदिशि सौम्या अक्षांशाः सौम्यं शङ्कतलम्

अत्र सौम्ये फलेन वियुजेति यदुच्यते तत्स्वदेशस्य निरक्षात् सौम्यदिक् स्थितत्वात् ।

एव सर्वत्र बोध्यम् । कोणशङ्कोः छायामानीय दिनगतं साध्यम् । तस्मिन् दिने

तावति दिनगते या छाया सैव विदिक् भवति । तन्मत्स्यादन्यद्विदिक् सूत्रं साधनीयम् ।

ततः पूर्वापरादिज्ञानं सुगमम् ।


 विदिक्छायावर्गाद्दलपदमुदक्स्थे नरतले

 पलच्छायायुक्त रहितमनुदक्स्थे भवति यत् ।


१. विधक्ष इति ग पु० ।    २. कोरानयन’इति ग पु० ।

३. न कुवर्ग ग पु० ।    ४. सि० शि० गो० प्रश्ना० २९ श्लो० ।

५. सि० शि० ग्र० त्रि० ६३ २ली० ।  ६. सर्वामिति क ख पु० ।