पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/220

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७५
त्रिप्रश्नाधिकार:


 फल तल्लम्बध्न श्रुतिहृतमिवापक्रमगुणो

 भवेत् त्रिज्याप्तोऽसौ जिनलवगुणाप्तो रविगुणः ।

 इति शिष्यधीवृद्धिदमहातन्त्रे' लल्लेन कालज्ञानमुक्तम् । कोणशङ्कच्छायाकर्णाभ्यां

ज्ञाताम्यां पलभाज्ञानं *‘क्रान्तिज्याकर्णवधात् त्रिज्याप्तकृतिरित्यनेन

वक्ष्यमाणप्रकारेण ज्ञातव्यम् । कोणवृत्ते दिग्ज्या शरवेदभागतुल्या द्वयं

छायागुणा त्रिज्याहृता बाहुः स्यात् । अन्यत्सुगमम् ।


 यत्र सर्वत्र निरवयवयोर्मूले गृहीत्वा योगवियोगादिकं कर्तुमिष्टं स्यात्तत्र

करणीषड्रविधोक्त्या योगवियोगादिक कृत्वा निकटमूल ग्राह्यम्। यदि तयोर्निरवयवे

मूले न लभ्येते (तदा) 'योगं3 करणयोर्महतीं प्रकल्प्येति' तन्मूलयोर्वर्गयोगः सिद्धः ।

घातस्य मूलं द्विगुणं लघुमिति च मूलयोर्द्विगुणघातः सिद्धः । वर्गघातस्य घातवर्ग

तुल्यत्वात् । वर्गयोगो द्विगुणघातयुतोनो युतिवर्गोन्तरवर्गश्च भवति ।


 उक्तञ्च

‘वर्गयोगस्य यद्राश्योर्युतिवर्गस्य चान्तरं द्विघ्नघातसमानं स्यादिति' ।

राश्योरन्तरवर्गेण द्विघ्ने घाते युते तयोः वर्गयोगसमः स्यादिति । युतिवर्गान्तर

वर्गश्च मूलयोरपेक्षित इति योगान्तरे रूपवदेव तयोरित्युक्तम् ।


ननु कथमत्र निकटमूलं ग्राह्यमित्युच्यते ।
 
व्एकादिसङ्कलितमितकरणीखण्डानि४ वर्गराशी स्यु ।
 
वर्गे करणीत्रितये करणोद्वितीयस्य तुल्यरूपाणि ॥


 इत्यादिना मूलं ग्राह्यमिति नोच्यते तस्य युक्तिसिद्धत्वादिति चेत् । सत्यम् ॥

यत्र मूलकरणीनां वर्गः क्रियते तत्रैकादिसङ्कलितमितकरणीखण्डानि सरूपाणि द्वया

दिकरणीनां वर्गेष्विति नियमः ॥ ईदृशान्मूलकरणीवर्गान्मूलं मूलकरण्योऽपेक्षितास्तत्रैव

'वर्गे करणीत्रितये करणीद्वितयस्य' इत्यादि मूलनियमः । यत्र मूल करणीनां वर्ग

मकृत्वैवेष्टकरण्यः सरूपाः स्थाप्यन्ते । अस्य कियन्मूलमिति पृच्छते न तत्रायं मूल

नियमः । यत्र च रूपात्मकं मूलं करणीनां सरूपाणामपेक्षितं तत्रापि नायं नियमः ।

उत्तङ्खाचार्यपदेबौजे

 एवं विधे वर्गे करणीनामसन्नमूलान्यानीय रूपेषु प्रक्षिप्य मूल वाच्यम्।

यत्र च सावयवयोर्मूले गृहीत्वा योगवियोगादिकं कर्तुमिष्टं तत्रासन्नमूलमेव ग्राह्यम् ।

 सावयवगुण्यस्य गुणने प्राप्ते गुणस्य यावन्तोऽवयवास्तानेव खण्डानीति

प्रकल्प्य ।


१. ग्रह To त्रि० Yo श्लो०  २. सि० शि० ग्र० ग० त्रि० ७७ श्लो०

३- बी० ग क १३ श्लो० ।  ४. बी० ग क २० श्लो० ।