‘गुण्यः' पृथग्गुणकखण्डसमो निवेश्यस्तैः खण्डैः क्रमहतः सहितो यथोह्येति'
गुणनं कार्यम् । लोके गोमुत्रिकागुणनमिदमित्यभिधीयते । कलादिकं षष्टया
सङ्गुण्य विकलाः संयोज्य च, पुनः षष्टया सङ्गुण्य मूलं ग्राह्यं, यावतो मूलमायाति ता
वतो ग्राह्यम् । शेषं सैकं षष्टिगुणं द्विगुणद्वियुक्तमूलेन भक्तं पूर्वमूलमनेन सावयवेन युक्ततं
स्फुर्ट स्यातू । अस्य मूलस्य पुनर्वर्गे क्रियमाणे पूर्ववर्गलुल्यासन्नं स्यादिति स्फुटमुच्यते।
एककरण्याः मूलेऽयमेव प्रकारः शरणमिति ग्रहगणिते सर्वत्रायमेवोच्यते ॥
यत्र च करण्योर्घातमूलं नायाति तत्र पृथक्स्थतिरेव योगस्तस्य मूलेऽप्ययमेव
प्रकारो रूपाभावात् । द्वयोरासन्नमूलयोर्योग एव करणीयोगमूलमिति । ३० ।
इदानीं दिनार्धशङ्क्वर्थमाह
स सौम्यगोलो भदलं यदाद्यं याम्योऽपरं सायनभागभानोः । |
वा० भा०-स्पष्टार्थ: प्रथमः श्लोकः । पलावलम्बावपमेन संस्कृताविति। अत्र किल
विशतिर्भागाः २० पलो दक्षिणः ॥ लम्बः ससत्यंशाः ७० ॥ स चोत्तरः ॥ खार्धाद्विषुवन्मण्डलं
दक्षिणतो विप्रकृष्टमतो दक्षिणोऽक्षः । क्षितिजादुत्तरतो विषुवद्वृत्तमतो लम्बस्योत्तरसंज्ञा ।
अत्र समदिशोयगो भिन्नदिशोरन्तरं संस्कार उच्यते । अत्र किल प्रवेरुत्तरोऽपष्मी द्वादशाभागा:
१२ । अनेनापमेन संस्कृतौ पललम्बौ जाते नतोन्नते ८ ॥ ८२ । यदापम उत्तरश्चतुविशति
भगिाः २४ । तदापमाच्छुद्धेऽक्षे जातं नतमुत्तरम् ४ । लम्बे च संस्कृते जातमुत्तरमुन्नतम्
९४ । एतदर्थान्नवतेरधिकत्वात् साशीतिशता १८० च्छोधितमुन्नतं स्यात् । लवादिकं वा नव
तेविशोधितमित्यतो वा । ३१-३२ ॥
वा० वा०-इदानीं दिनाद्धशङ्क्वर्थमाह-स सौम्यगोल इति । पलावलम्बाविति ।
अत्र भाष्यम् । अत्र किल विशतिभागाः पलो दक्षिणः, लम्बः सप्तत्यंशाः स
उत्तरः सह्यकुलाचलाश्रितपुरे विदर्भराजपालितदेशे जडविडेः पलांशाः विशतिः ।
यतोऽस्य रेखानगरं पथ्र्यलोस्वनिवासाभिप्रायेणोत्तमत्रेति ।
गोदावरीसौम्यतटविराजमाने गोदावरीनाभिगताब्जकक्षेत्राद्गव्यूतिमात्रवरुण
दिगवस्थिते गोलज्ञनिवासेनान्वर्थ गोलग्रामेऽपि निकटस्थिता पर्यल्येवास्माभी रेखा
नगरं गृह्यते ॥ ३१-३२ ।।
इदानी शङ्कु दृग्ज्यां चाह--
नर्ताशजीवा भवतीह दृग्ज्या दिनार्धशङ्कश्च तथोन्नतज्या । |
१. बी० ग अव्य० १० श्लो० ।