वो० भा०-इह मध्यान्हे नतांशानां जीवा दूग्ज्या स्यात्। तथोक्तांशानां जया सं
दिनाधंशङ्कुः ॥ वासनात्र सुगमा । ३२३ ॥
इदानी प्रकारान्तरेणाह--
त्रिभज्यकोन्मण्डलशङ्कुघाताच्चरज्ययातं खलु यष्टिसंज्ञम् ॥ ३३ ।
युतोनितोद्वत्तनरेण यष्टिका भवेदुदग्दक्षिणगोलयोर्नरः' ।
|
वा० ३० उन्मण्डलशङ्की त्रिज्यया गुणिते चरज्यया भक्के यल्लब्धं सा यष्टिः स्यात् ।
सा यष्टिरुत्तरगोल उष्मण्डलशाङ्कुना युक्ता दक्षिणे हीना सती दिनार्धशङ्कुर्भवति ॥
अत्रोपपत्तिः--क्षितिजोन्मण्डलयोर्मध्ये चरकालः ॥ यस्य ज्याक्षकर्णवत् तिर्यशूपा । सा
चरज्या । उन्मण्डलादूर्ध्वं याम्योत्तरवृत्तं यावद्यः कालः स सदैव सर्वत्र पञ्चदशघटिकात्मक एव ।
तस्य कालस्य ज्या त्रिज्या । इदानीमनुपातः । यदि चरज्ययोन्मण्डलशङ्कुतुल्यमूर्ध्वं लभ्यते
१. अत्र कश्चित्---
यटेर्यद्विषुवद्दिनार्धजनरस्त्रिज्यासमः स्याच्चार
ज्योदृत्ताख्यनूसंक्षयादिति न सन् श्रीभास्करोक्तो नयः ।
कैश्चित् प्रोक्तमिदं तु तैश्चरगुणादुद्वृत्तना नोदित:
स्वाज्ञानादिति भास्करोदितमसद्ब्रूते स एवाबुधः ।
|
अत्र बापूदेवः--
त्रिभज्यया चेद्यदि लम्बजीवा तदा द्युमौव्य किल यटिका स्यात् ।
त्रिभज्यया चाक्षलवज्यका चेत्। क्रान्तिज्ययोद्वत्तनरस्तदा स्यात् ।
उदृत्तशङ्क्वाढयविहीनयष्टिगोलक्रमात् स्याद्दिनमध्यशङ्कुः ।
स एव लम्बापमभागयोगान्तरज्यकेति त्वतिरोहितं स्यात् ।
अतोऽभीष्टयोश्चापयोर्यद् बृहद् स्यात् तदेव प्रकल्प्यं हि लम्बांशमानम् ।
ततोऽन्यत् तथा क्रान्तिमानं च ताभ्यां कृते प्रोक्तरीत्यात्र मध्याह्नशङ्कौ ।
चापयोरिटयोदोंज्यें इत्यादी भास्करोदिता ।
सम्यग्ज्याभावना तूर्ण सुखेनैवोपपद्यते ॥
एवं त्रिमौव्यापलशिञ्जिनी चेत् द्युजीवया यष्टितलं तदा स्यात् ।
त्रिजीवया लम्बगुणस्तथा चेदग्रादिखण्ड त्वपमज्यया स्यात् ।
अग्रादिखण्डोनयुत दिनार्ध गोलक्रमाद्यटितल हि दृग्ज्या।
लम्बापमैक्यान्तरकोटिजीवा सैवेति सर्व सुगमं बुधानाम् ।
अत्रापि कल्प्यं बृहदेव चापं लम्बाशकान् क्रान्तिलवांस्तथान्यत् :
ताभ्यां यथोक्त्या दिनमध्यदृग्ज्या विलिख्य बीजक्रियया प्रसाध्या !!
ततश्च चापद्वयकोटिजीवयोहँतिर्भुजज्याहतिहीनसंयुता ।
हृता त्रिमौव्य भवतीह तद्धनुः समासविश्लेषजकोटिमौविंका ॥
प्रकारोऽयमिति स्पष्टो लाघवेनोपपद्यते ।
सिद्धान्तेऽक्षभवक्षेत्रविज्ञानां सुधियां द्रुतम् ।
|
सि०-२३