भोग्यखण्डस्पष्टीकरणं विनैवोक्तं ज्ञानाधिराजेन तद्भाष्यानभिज्ञतयैव। तथैव
लघ्वहणंणेऽपि क्षेपदिनयोगेन विनैवावमानयनं कृतं तदपि भाष्यानभिज्ञतयैव ।
तद्वाक्यम्
‘चैत्रादियाततिथयो विगतर्तुशुद्धिहीनाः समाधिपधटीरहिता दिनौघःइति । करणसारणकारास्तु स्थूलमपि कुर्वन्ति । सिद्धान्तकारस्य सवासनगणितं प्रतिपादयतः स्थूलकरणं दोषावहमेव ।
प्रकृतमनुसरामः । अत्र वासना । गोलेऽहोरात्रवृत्ते क्षितिजसम्पातयोर्बद्धं सूत्रं तदुदयास्तसूत्रम् । एवमुन्मण्डलसम्पातयोर्बद्धं तदहोरात्रव्याससूत्रम् । अहोरात्रव्यास सूत्रस्योदयास्तसूत्रस्यान्तरं सर्वत्र कुज्या ।
अथ याम्योत्तरवृत्तसम्पातयोर्बद्धं तदपि व्याससूत्रं स्यात् । तयोव्र्याससूत्रयोर्यः सम्पातस्तस्मादुपरितनखण्डं युज्या । इयं द्युज्या कुज्यया दक्षिणोत्तरगोलयोर्हनाधिका यावत्क्रियते तावतृप्तिदनाद्धं भवति । उन्नतं” द्युनिशमण्डले कुजात् सावनं द्युतिविधौ हि तज्ज्यका ।
हतिरिति, गोले प्रसिद्धाक्षकर्णावत्तियंशूपा । शङ्कुस्तु लम्बवत् । |
इति गोले वक्ष्यते । अहोरात्रवृत्ते चक्रकला अपि सन्ति । तासां व्यासाद्धे त्रिज्या । तस्मादहोरात्रव्यासखण्डे द्युज्याङ्कः त्रिज्याङ्काश्च सन्ति ।
अहोरात्रव्याससूत्रोदयास्तसूत्रयोरन्तरमूर्वाधरं यदि युज्याङ्गूष्यते तदा कुज्या भवति
यदि त्रिज्याङ्कैर्ण्यते तदा चरज्या भवति । अयमेव हृत्यन्त्ययोगेंदः । |
अग्राग्रखण्डं भुजः, कुज्या कर्णः ।
महाशङ्कः कोटिः। शङ्कतलं भुजः । हृतिः तत्र दिंनाउँहृतिर्यावत् कुज्यया युतोना क्रियते तावत् धूज्या भवति । युतं दक्षिणोत्तरगोलयोः क्रियते तावद्य ष्टिर्भवति ।
यष्टिसाधनार्थमनुपातौ-यदि त्रिज्यास्थाने युज्या तदा चरज्यास्थाने केति जाता कुज्या ।
ततोऽस्मिन् कुज्याकणं उन्मण्डलशङ्कुः कोटिस्तदा द्युज्याकणं का कोटिरिति ‘छेदं लवं च परिवत्यं हरस्य शेषः कार्योऽथ भागहरणे गुणना विधिश्चेति'
१. सि० शि० गो० त्रि० ३४ श्लो० । २. सि० शि० गो० त्रि० ३६ श्लो० ।
३. ली० भिन्नभागहारे ५ इलो० ।