द्युज्यातुल्ययोगुणहरयोर्नाशे
‘त्रिभज्यकोन्मण्डलशङ्कुघातादित्युक्तम्' ।
एवं सर्वत्र कुशाग्रबुद्धयः कौतूहलमुत्पादयन्ति त्रैराशिककल्पनाभिः । अग्रा भुजः । समशङ्कुः कोटिः । तद्धृतिः कर्णः ।
शङ्कुतलं भुजः दिनार्द्धशङ्कुः कोटिः । दिनार्द्धहृतिः कर्णः ।
एवं गोलक्रमात्तद्धृतिहीनयुक्ता दिनार्द्धहृतिः कर्णः । समशङ्कनोनयुतो दिना- ढंशङ्क कोटि: । अग्राशङ्कतलवियोगयोगतुल्य एव समवृत्तखेटमध्यांशजीवात्मको भुजो "भुजः ।
मध्याह्न भुजतुल्यैव सर्वदा दृग्ज्या भवति । मध्याह्नादन्यत्रास्मिन् भुजे यः कर्ण एव दिग्ज्या स्यात् ।
‘गोलक्रमात्तद्धृतिहीनयुक्ता हृतिः पलक्षेत्रभुजेन निघ्नी । तत्कर्णभक्ता भवतीह दृग्ज्या प्रद्योतने वाद्युदल प्रयाते"
इति वक्ष्यते । इतः प्रभृतिभाष्ये स्पष्टं वृत्तजातम् ॥ ३२१-३३ ।। इदानों हृतिमन्त्याँ चाह--
'क्षितिज्ययैवं द्युगुणश्च सा हृतिश्चरज्ययैवं त्रिगुणोऽपि सान्त्यका ॥ ३४ ।।
वा० भा०-द्युज्यैव क्षितिज्ययोत्तरगोले युता याम्ये रहिता हृतिर्भवति। एवं त्रिज्या चरजीवया युतोनान्त्या स्यात् ।
अत्रोपपत्तिः--अत्र गोलेऽहोरात्रवृत्तक्षितिजसंपातयोर्बद्धं यत् तदुदयास्तसूत्रम् । एवमुन्मण्डलसंपातयोर्बद्धं तदहोरात्रवृत्त्व्याससूत्रम् । तदुदयास्तसूत्रयोरन्तरं सर्वत्र कुज्या । अथ याम्योत्तरवृत्तसंपातयोर्बद्धं तत् तन्मितं तस्य व्याससूत्रम् । तयोव्र्याससूत्रयोयंः संपातस्तस्मादुपरितनं खण्डं द्युज्या ॥ सोत्तरगोलेऽधःस्थया कुज्यया युता यावत् क्रियते तावद्दिनार्धेऽकॉदयास्तसूत्रयोरन्तरं स्यात् ॥ दक्षिणे तु कुज्यया हीना ॥ यतस्तत्रोदयास्तसूत्रादधः कुज्या । यदकदयास्तसूत्रयोरन्तरं सा च हृतिरुच्यते । एवमन्त्यापि । अत्राहोरात्रवृत्तव्यासार्धं त्रिज्यातुल्यैरङ्कैरङ्कश्यते तावत् त्रिज्यातुल्यं भवति । तैरङ्गर्यावत् कुञ्ज्या गुण्यते तावच्चरज्यातुल्या भवति । अथ चरज्यया त्रिज्या युतोनान्त्या संज्ञा भवति ॥ नह्यन्त्याहृत्योः क्षेत्रसंस्थानभेदः किन्त्वङ्कानां गुरुलघुत्वात् केवल संख्याकृतो भेद इत्युपपन्नम् ॥ ३४ ॥ इदानीमन्त्यातो हृर्ति हृतेश्वान्त्यामाह— हतिस्त्रिमौव्र्या चरजीवया वा हता युमौव्र्या क्षितिजीवया वा । भत्तान्त्यका स्यादथवान्त्यकाया हृतिगुणच्छेदविपर्ययेण । ३५ ॥
R. सि० शिo To To त्रि० Rと श्लो०