पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/227

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८२
सिद्धान्तशिरोमणौ ग्रहगणिते


 वा० भा०-हृतिस्त्रिज्यया गुणिता द्युज्यया भत्ता सत्यन्त्या भवति। अथवा चरज्यया गुणिता कुज्यया भक्तान्त्यका स्यात् । एवमन्त्या द्य' ज्यागुणा त्रिज्यया भक्ता हृतिः स्यात् । अथवा कुज्या गुणा चरज्यया भक्का हृतिः स्यात् ।

 अत्रोपपतिस्त्रैराशिकेन-यदि द्य ज्यया त्रिज्या लभ्यते कुज्यया वा चरज्या तदा हत्या किमिति । फलमन्त्या । यतो द्य ज्यापरिणता कुज्या त्रिज्यापरिणता चरज्या । एवमन्स्पातो हृतिविलोमविधिनेति सर्वमुपपन्नम् ॥ ३५ । ।

इदानीमन्त्याहृतिभ्यां दिनार्धशङकुमाह—

अन्त्याथवोन्मण्डलशङ्कुनिध्नी चरज्ययाप्ता स दिनार्धशङ्कुः ।
हृतिः पलक्षेत्रजकोटिनिघ्नी तत्कर्णभक्ता यदि वा स शङ्कुः' ।। ३६ ॥

 वा० भा०-अन्त्योन्मण्डलशड, कुना गुणिता चरज्यया भत्ता फल दिनार्धशड कुः । अथवाष्टधा हृतिरष्टाभिः पलक्षेत्रकोटिभिर्मुणिता स्वस्वकणेंन भक्ता फलमटधा दिनार्धशड्कुः।

 अत्रोपपत्तिस्त्रैिराशिकेन-यदि चरज्यातुल्येनान्त्याधःखण्डेनोन्मण्डलशङ्कुर्लभ्यते तदा समग्रयान्त्यया किमिति । फलं दिनार्धशङकुः । अथ हृतितः । हृतिर्नामाक्षकर्णगत्यार्कप्रापि सूत्रम् । अतोऽक्षक्षेत्रकर्णरतुपातः । यद्यक्षक्षेत्रकणेंन तत्कोटिर्लभ्यते तदा हत्या कर्णीन किमिति । फलमकल्लम्बितसूत्रस्य भूपर्यन्तस्य प्रमाणं शङ्कुर्भवतीत्युपपन्नम् ॥ ३६ ।।


 इदानी दिनार्धदृग्ज्यामाह—

हृतिः ? पलक्षेत्रभुजेन निघ्नी तत्कर्णभक्ताग्रकयोनयुक्ता ।
गोलक्रमात् स्यादथवात्र दृग्ज्या याम्याथ सौम्या विपरीतशुद्धौ ॥३७॥

 वा० भा० - अथाष्टधा हृतिरष्टभि: पलक्षेत्रभुजैर्गुण्या स्वस्वकर्णन भाज्या। यत् फल तदुतरगोलेऽप्रया हीनं, याम्ये युतं दिनार्धे दृग्ज्या स्यात् । सा च याम्या । यद्य तरगोले फला दग्रा न शुध्यति तदाग्रायाः फलमेव जह्यात् । शेषं दृग्ज्या तदा सौम्या स्यात् ।

 अत्रोपपत्तिस्त्रैराशिकेन—यदि पलक्षेत्रकर्णेन तद्भुजो लभ्यते तदा हृत्या किमिति । फलमुदयास्तसूत्राद्दक्षिणतः शङकुमूलं यावत् भवति । दृग्ज्या तु शङकुमूलप्राच्यपरयोरन्तरम् । अतः प्राच्यपरोदयात्तसूत्रयोरन्तरमग्रातुल्यं याम्यगोले तत्र क्षेप्यम् । उत्तरगोले तु तस्माद्वि शोध्यम् ॥ शेषं याम्या दृग्ज्या स्यादिति युक्तम् । यदा तूत्तरगोले खार्धादुत्तरतो रविर्वर्तते तदा शङकुमूलं प्राच्यपराया उत्तरतो भवति । अतस्तत्र फलादग्रा न शुध्यति । अग्रातो यावत्


१. अत्र ज्ञानराजः--
यत् सिद्धान्तशिरोमणौ समुदितं मध्यान्त्ययोन्ना हतः
सम्भत्तश्चरजीवया दिनदले शङ्कुर्भवेद्वाथ सः ।
अक्षक्षेत्रजकोटिभिविगुणितस्तत्कर्णभक्ता हृति
स्तत् सर्वं विषुवद्दिने व्यभिचरत्यस्मान्मया नोदितम् ॥
( सि० सु० त्रि० ४३ श्लो० )