फल विशोध्यते तावत् प्राच्यपराशड कुमूलयोरन्तरमवशिष्यते । सैव दृग्ज्या। एवं सौम्या चेत्युपपन्नम् ॥ ३७ ॥
इदानी प्रकारान्तरेणाह-- |
वर० भा०-हतिरुत्गारगोले तद्धृत्या हीना दक्षिणे युक्ता साष्टधाष्टभिः पलक्षेत्रभुजैर्गुण्या स्वस्वकणेंन भाज्या फलमष्टधा दृग्ज्या स्यात् ।
अत्रोपपत्तिः-अहोरात्रवृत्सममण्डलसंपातयोः पूर्वपश्चिमयोर्यद्बद्ध तस्य या म्योत्तरवृत्तसंपाते निबद्धहृतिसूत्रस्योदयास्तसूत्रपर्यन्तस्य यः सम्पातस्तस्मादधस्तनं हृतिखण्डं तद्धृतितुल्यं भवति । अतस्तेनोनिता हृतिरूध्र्वखण्डं समसूत्राद्दक्षिणतोऽक्षकर्णगत्यार्क पर्यन्तं भवति । अतस्तेनानुपातः--यद्यक्षक्षेत्रकर्णेन तद्भुजो लभ्यते तदानेन किमिति । फलं दृग्ज्या । दक्षिणगोले तु क्षितिजादधोऽहोरात्रवृत्तस्य सममण्डलेन संपातस्तत्राधोमुखः समशङ्कुः क्षितिजादधश्च तद्धृतिः । अतस्तया तद्धृत्येयं हृतिर्युताधः समसूत्राद्दक्षिणतोऽक्षकर्णगत्यार्क पर्यन्तं भवति। अतस्तयानुपातः । फल याम्या दृग्ज्या। खस्वस्तिकाद्दक्षिणोत्तरवृत्ते यैभगैिरकों नतस्तेषां ज्येत्यर्थः ।॥ ३८ ॥
इदानी प्रकारान्तरेणाह—
त्रिज्या नृचापोत्क्रमजीवयोना दृग्ज्या भवेदेवमतो नरो वा । |
वाo भा०-त्रिज्या शङ्कुचापस्योत्क्रमज्यया हीना दृग्ज्या भवति । दृग्ज्याचापस्यो त्क्रमजीवयोना तदा शङ्कुर्भवति। अनेन प्रकारेण दिनाधोंन्मण्डलसमशङ्क्वादीनां दृग्ज्या स्यात्। पूर्व तु या कथिता सा दिनार्ध एव ।
अस्योपपतिर्भुजकोटिज्याप्रकरण एव प्रतिपादिता। ३९ ॥ इदानी छायाकर्णावाह
दृग्ज्यात्रिजीवे रविसंगुणे ते शङ्कूद्धृते भाश्रवणौ भवेताम् ।
वा० भा०-दृग्ज्या च त्रिज्या च द्व द्वादशगुणे शङ्कुना भाज्ये। दूग्ज्यास्थाने यत् फलं लभ्यते सा छायाऽङ्गुलात्मिका भवति । यत् त्रिज्यास्थाने सोऽस्याश्च्छायायाः वर्णः । अत्रोपपत्तिस्त्रैराशिकेन---यदि शङ्कुकोटेदृग्ज्यात्रिज्ये भुजकर्णो तदा द्वादशाङ्गुलशङ्कोः की । फले छायाकणों स्त इत्युपपन्नम् ।। ३&३ ।।
वा० वा०-अत्र नरादिना वस्तुजातेनालोकस्य क्रियत्यपि प्रदेशेऽवरुद्धे लब्धात्मकं तम एव छाय्ा शब्देनोच्यते । तत्रानुपातः–महाशङ्ककोटौ दृग्ज्या भुजस्तदा। द्वादशाङ्कलशङ्ककोटौ को भुज इति छाया भवति ।