ननु कथमत्र पाटीगणितोक्तछायाव्यवहारन्यायोऽत्र न भवति ।
शकः प्रदीप- तलशङ्कतलान्तरध्नश्छाया भवेद्विनरदीपशिखौच्यभक्त’ इति । अत्र दीपस्थनीयो रविः दीपशिखौच्यं महाशङ्कःप्रदीपतलशकुंतलान्तरं दृग्ज्या तस्माच्छायाव्यवहारोक्तन्यायोऽत्र युक्त इति चेत् उच्यते ।
अस्ति महद्वैषम्यम् । तत्र दीपशिखौच्यं स्थिरमत्र रविबिम्बमस्थिरम् । तत्र तु छायाग्राभिमुखे करद्वयमिते तस्मिन्नेवार्कमिताङ्गलशङ्कौ न्यस्ते छायाधिकोपल भ्यते । अत्र तु छायाग्राभिमुखे हस्तशतमितेऽपि न्यस्ते सैव छायोपलभ्यते ।
किञ्च तत्र दीपशिखौच्ये सार्द्धत्रयमिते प्रदीपाद्धस्तत्रयन्य स्तद्वादशाङ्गलशङ्कोः छायावर्षसहत्रेणापि तुल्यैव स्यात् ।
अत्र सर्वदेकप्रदेशावस्थितस्य द्वादशाङ्गुलशीः प्रतिक्षणं छायावैलक्षण्यं प्रतीयते । तत्र प्रदेशविशेषेण छायावैलक्षण्यमत्र तु कालवैलक्षण्ये विलक्षणता।
किञ्चात्र द्रष्टा यत्रोदयं पश्यति, यत्रास्तच पश्यति तत् खलु क्षितिजम् । तत् क्षितिजं भूपृष्ठनिष्ठद्रष्टुडेंगुञ्जायतुल्यं सर्वत्र समं दृश्यते । अत एव वदन्ति यत्र गगन् .मवनौ समन्ताल्लग्नमिव दृश्यते तद्धरिजमिति । क्षितिजादुन्नतांशानां ज्या शङ्कः स तु दृगुछायादुपयैवागत इति स्वत एव विनरदीपशिखौच्यतुल्यो जातः । अतो ऍथा स्थितशङ्नैव भज्यते तथैव यन्त्रवेधविधिना ध्रुवोन्नतिर्या नतिश्वं भवतोऽक्षलम्ब कावित्यत्र धीयन्त्रेण पलभाज्ञानेऽपि दृगुछायादुपयैव कोटिरायातीति यथास्थितैव कोटिगृह्यते । क्षितिजादेवोन्नतिरपेक्षिता न नरतलादिति कोटिः केवलैव गृह्यते न दृगुयाययुता गृह्यते । धीयन्त्रेण पलभाज्ञानं वक्ष्यते यन्त्राध्याये ।
यष्ट्यग्रमूलसंस्थं ॐ दध्वा ध्रुवमग्रमूलयोर्लम्बौ ।
बाहुर्दम्बान्तरभूर्लम्बोछायान्तरं कोटिः।
कोटिद्वदशगुणिता बाहुविभक्ता पलप्रभा ज्ञेयो इति एवं धीयन्त्रेण वृक्षादि- मूलवेधे क्षेत्रमिदम् । दृगुञ्यः कोटिः । अत्रात्मवंशान्तरभूमिभुजः दृष्टिवंशमूलयो बंद्धसूत्रं कर्णः।
वृक्षाग्रवेधे क्षत्रम् । वंशमूलादुपरि दृष्ट्युट्ठयमितेन्तरे चिह्न कल्प्यम् । तद्दृष्टयोरन्तररेखा भूमानमिता स भुजः । चिह्नपरिस्थं वंशखण्डं कोटिः। लम्बान्तर- तुल्ये भुजे लम्बौच्यान्तरं कोटिस्तदा भूमितेन किमिति फलं चिह्नोपरिगतं वंश
१. दृशभ्यमिति ग पु० ।
२. ठंस्तत्रयन्य इति ग पु० ।
३. अतो इति ग पु० ।
४. सि० शि० गो० यन्त्रा० ४२ श्लो० ।