पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/230

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८५
त्रिप्रशनाधिकारः


 खण्डम्। अत्र सकलवंशमानमपेक्षितमिति कोटिईटयुछाययुक्ता क्रियते । एवं तोयस्थवंशाग्रवेधे कोटिईटयुछायोना सति' वशमानं भवति प्रतिबिम्बस्याधोमुख त्वात् । तस्माद् दृष्टद्युछ्रायमवधीकृत्यैव सर्वत्र कोटिरायाति । साप्यत्रैव युक्तेति महाशङ्कनैव भज्यते विनरमहाशङ्कना न भज्यत इति शोभनम् । भूगर्भभूपृष्ठस्थक्षितिजयोर्भूव्यैासार्द्धयोजनैरन्तरित्वेन महाशङ्कोर्भूगर्भक्षितिजादेव सिद्धत्वेन च स्वभुक्तितिथ्यंशविवजितो महाशङ्करेव भाजकत्वेन ग्राह्यः । तादृशशङ्कोरेव भूपृष्ठस्थानां यन्त्रादिनोपलम्भः ।। ' गगैनमध्यतो नता इति भूगर्भभूपृष्ठस्थयोदृग्ज्याप्येकव उपाधेरेकत्वात् । वक्ष्यति* च--

 स्वभुक्तितिथ्यंशविवजितोना महान् लघुः खाग्निकृतांशहीनः ।
 स्पष्टो भवेदस्फुटजातदृग्ज्या संताडिताकैः स्फुटशङ्कुभक्ता । प्रभा भवेदिति ।
 अत्र लघुरिति खार्कमितत्रिज्योत्थः शेषं स्पष्टम् । कथं पुनर्भुपृष्ठस्थयोनिवि छोऽध्वस्थयोरप्येक त्रवाकदियभानम्। दूरस्थत्वाच्छनिभौमयोगवदित्यवधारय।

 किञ्च क्षितिजस्थेऽर्कमण्डलकेन्द्रे एकषष्टयधिकद्वात्रिशतयोजनायतापि रवि बिम्बपश्चिमनेमिरुदिता क्षितिजादङ्गलषट्कोच्छितैव दृश्यते । निविधोध्र्वस्ययोरेक त्रोदयभानमिति किं चित्रम् । मध्याह्नच्छायातः क्रान्तिज्यापलभाज्ञानं ‘दिनार्द्धद्युते स्त्रिज्यकाध्न्या हृतायाः स्वकर्णेन' इति । वक्ष्यतेॐ । दिनार्द्धछायैव याम्योत्तरा दिगिति दिग्ज्ञानं स्पष्टम् ।
 एवं समवृतगतार्कछायैव पूर्वापरछायेत्यपि स्पष्टम् । समवृत्तछायातोऽर्कपलभाज्ञानञ्च ‘त्रिज्यार्कघातः* श्रुतिहृन्नरः स्या"दित्यादिना वक्ष्यते ॥ ३९.३ ॥  इदानी प्रकारान्तरेण दिनार्धकर्णमाह--  त्रिज्याक्षकर्णेन गुणा' विभक्ता हृत्या श्रुतिर्वा दिनमध्यगेऽर्के॥४०॥

 वा० भा०-त्रिज्यामक्षकर्णन संगुण्य हृत्या भजेत् । फल मध्यकर्ण: स्यात्।  अत्रोपपत्तिस्त्रैराशिकाभ्याम्--यद्यक्षकणेंन द्वादश १२ शङ्कुस्तदा हत्या तुल्येन किमिति । अत्र हृतिद्वादशगुणाक्षकर्णेन भाज्या । फलं मध्यशङ्कुः । अथान्योऽनुपातः । यदि मध्याह्नशङ्कुना त्रिज्याकर्णस्तदा द्वादशाङ्गुल १२ शङ्कुना किमिति । इह त्रिज्या द्वादशगुणा पूर्वानीतशङ्कुरूपभाजकस्य छेदांशविपर्यासे कृतेऽक्षकर्णगुणा च द्वादशगुणया हृत्या भाज्या । अत्र गुणकभाजकयोद्वदशकयोर्नाशे कृते त्रिज्याक्षकणेंन गुण्या हत्या भाज्या । फलं मध्यकर्णःस्यादित्युपपन्नम् ॥४०


१. शतीति क ख पु० पाठ: ।  २. सि० शि० ग० ग्रहच्छाया० १४ श्लो० ॥ ই. ৰিo হিoে Wাe त्रि० ७० श्लो० ।  Y. सि० शि9 ग० त्रि० ८० शिलो० ॥ ५. हतेति पाठः साधुः ॥ -  सि०-२४