पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/232

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८७
त्रिप्रशनाधिकारः

इच्छावृद्धी फले हासो हासे वृद्धिश्च जायते ।
व्यस्त त्रैराशिक तत्र ज्ञेय गणितकोविदै: ।
अतोऽत्र चरज्या गुणोऽन्त्या हरः फलं मध्यकर्ण इत्युपपन्नम् ॥४२॥

 वा० वा०-'उद्वृत्तकर्णाश्चरशिश्विनीघ्नो भक्तोऽन्त्यया वा श्रवणोदिनाद्धे' इत्यत्र वासना भाष्यकारेण व्यस्तत्रैराशिकं कृतम् । अस्मत् पितृव्यचरणैर्मल्लारि दैवजैस्त्रैराशिकत्रयं कृतम् । यदि चरज्यास्थाने कुज्या तदान्त्यास्थाने केति हृतिमानीय रानीतः । यदि कुज्याकर्णे उन्मण्डलशङ्कः कोटिस्तदा हृतिकर्णे का कोट्टिरिति कुज्यैयोस्तुल्यत्वान्नाशे उन्मण्डलशङ्कुश्चर्ज्यॊभक्तोऽन्त्यागुणित इति दिनार्द्धशङ्कु जतः । अस्मिन् दिनार्द्धशङ्कौ त्रिज्याकर्णस्तदा द्वादशकोटौ कः कर्णं इति हरस्य छेदांशविपर्यासे कृते उन्मण्डलशडूना यावद् द्वादशगुणात्रिज्या भज्यते तावदुढुतकर्णी लभ्यते । स चरशिञ्चिनीघ्नो भक्तोऽन्त्ययेति सर्वमुत्पद्यते ॥ ४१३४२ ।।

इदानीं प्रकारान्तरेणोन्मण्डलकर्णातू समवृत्तकर्णाच्च मध्यकर्णमाह

उद्वृत्तकर्णः समवृत्तकर्णः क्षितिज्यया तद्धृतिसंज्ञया च ।
क्रमेण निघ्नौ विहुतौ च हृत्या दिनार्धकर्णावथवा भवेताम् ॥४३॥

वा० भा०-स्पष्टार्थम् ।

 अत्रोपपत्तिस्त्रैराशिकेन । यद्युन्मण्डलाधःस्थेन हृतिखण्डेन कुज्यामितेनोन्मण्डलकर्णो लभ्यते तद्धृत्या च सममण्डलकणों लभ्यते तदा हृत्या किमिति । एते च व्यस्तत्रैराशिके। अत्र फलं मध्यकर्णः कर्णादुक्तवन्मध्यच्छायेत्युपपन्नम् ॥!४३।।

 वा० वा०-तथैव' ‘उद्वृत्तकर्णः समवृत्तकर्णः क्षितिज्यया तद्धृतिसंज्ञया' इत्यत्रापि ग्रहकौतुकग्रहलाघवटीकाकारैरस्मपितृव्यचरणर्मल्लारिदैवशैस्त्रराशिकद्वये नॊपपत्तिरुक्ता । कुज्याकर्णे उन्मण्डलशङ्कः कोटिस्तदा हृतिकर्णे का कोटिस्ततः शङ्कु कोटौ त्रिज्याकर्णास्तदा द्वादशकोटौ कः कर्णः जातश्छायाकर्णः द्वादशगुणात्रिज्यों न्मण्डलशङ्कभक्ता उन्मण्डलकर्णो भवति । ‘हरस्य छेदं लवं च परिवत्र्येति सर्वमुत्पद्यते । तद्धृत्या समशङ्कमेवं संसाध्य दिनार्द्धकर्णोभवति ॥ ४३ ॥

इदानीमिच्छादिक्छायां विवक्षुस्तज्ज्ञस्य सुज्ञताधिक्यं निरूपयन् प्रश्नरूपेणाह

याम्योदक्समकोणभाः किल कृताः पूर्वैः पृथक्साधनै
र्यास्तदिग्विवरान्तरान्तरगता याः प्रच्छकेच्छावशान् ।
ता एकानयनेन चानयति यो मन्ये तमन्यं भुवि
ज्योतििर्वद्वदनारविन्दमुकुलप्रोल्लासने भास्करम् ॥४४॥


१. उद्वृत्तकर्णश्चरशिञ्जिनीवदित्यर्थः ।