पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/234

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१८९
त्रिप्रशनाधिकारः


कर्णमानीय सा पलभा त्रिज्यया गुण्या तत्कणेंन भाज्या । फलमिटक्षज्या स्यात् । स्वदेशाक्षजया दक्षिणोत्तरवृत्तगता । इयं तु दृङ्मण्डलगता तिर्यक्स्थतत्वादधिका जाता ! इदानी क्रान्तिज्यापि दृङ्मण्डलगता क्रियते । तत्रानुपातः । यदि स्वदेशाक्षज्ययेष्टाक्षज्या दृङ्मण्डलगतैतावती लभ्यते तदा क्रान्तिज्यया दृङमण्डलगता कियतीति । अत उक्तम् । अथ तया विनिघ्नी स्वाक्षज्ययसापमशिञ्जिनी चेति । अत्र फलं विषुवन्मण्डलार्कयोदृङ्मण्डले येऽन्तरांशास्तेषां ज्या भवति । सेष्टक्रान्तिज्या । अथ ताभ्यां दिनार्धद्युतिवद्विदध्यादिति । इष्टाक्षज्याया धनुदुङ्मण्डलगर्त स इष्टोऽक्षः ॥ इष्टक्रान्तिज्याया धनुरिष्टक्रान्तिदृङ्मण्डलगता । अथ तयोयम्यगले योगः सौम्ये त्वन्तरं खमध्याद्दृङ्मण्डलगतार्कनतांशाभवन्ति । तेषां ज्या दूग्ज्या। नवतेविशोधितानां तेषां ज्योन्नतज्या स शङ्कुः । दूग्ज्यात्रिजीवे रविसंगुणे ते इत्यादिना छायाकणों भवत इत्युपपन्नम् ॥ ४६-४६ ॥

इदानी विशेषमाह

एवं कृते ये पलभागकाः स्युस्तद्धीनखाष्टेन्दुमिताश्व यंऽशाः ॥४७॥
तांश्राक्षभागान् प्रविकल्प्य साध्या द्विधेटदिग्भा यदि दिग्लवज्या ।
अल्पाग्रकायाः खलु सौम्यगोले याम्ये तु तस्यां दिशि नास्ति भैव ॥४८॥


 वा० भा०-उत्तरगोले उत्तरेच्छादिग्ज्याग्रे दृङ्मण्डल विन्यस्त कस्मिविदहोरात्रवृते पूर्वाष्हेऽपराष्हेच स्थानद्वये लगति । तस्मिन्नहोरात्रवृत्ते भ्रमतः सूर्यस्य तत्स्थानद्वयं प्रासस्य तद्दिक्स्थत्वं वारद्वयं भवति । अतस्तद्दिशि भाद्वयेन भवितव्यम् । तत् कथमिति चेत् तदर्थमिदम् । एवमनेन प्रकारेण य इष्टपलांशाः स्युस्तेषु साशीतिशता १८० च्छोधितेषु ये शेषांशास्तांश्चाक्षभागान् प्रकल्प्य सत सम्भवे द्विघेष्टभा साध्या । एवं तवैव भवति । यदोत्तरगोलेऽग्राया: सकाशाहिग्ज्याल्पा भवति । याम्यगोले तु तस्या दिश्यर्क: क्षितिजादुपरि न प्रविशति । अतस्तत्र छायाऽभाव एव ॥

 अत्रोपपत्तिः । अत्रेच्छादिशि न्यस्तस्य दृङ्मण्डलस्य विषुवन्मण्डलेन सह सम्पात एकः। खस्वस्तिकादासन्नो थैभगिर्भवति ते किलेच्छापलiशाः । अन्यः खस्वस्तिकाद्दूरत इतरस्यां दिशि यैर्भागैर्भवति ते च पलांशाः कल्पिताः । तेषामक्षांशानामग्रादितरेषां चाग्रादिष्टाहोरात्रवृत्तमिटक्रान्त्यग्रे भवति ॥ अत उभयतोऽपि साध्या छाया । अतः सति सम्भवे द्विधा भवति । इदं यथास्थिते गोले दिग्ज्याग्रे दृङ्मण्डलं विन्यस्य दर्शनीयम् ।

 अथानेनानयनेन सममण्डलच्छायूनयनार्थमुदाहरणम् । यस्मिन् देशे पञ्चाङ्गला पलभा तत्र यदाशीत्यधिका ससशती क्रान्तिाज्या ७८० तदाष्टाविंशात्यधिकसहस्रद्वयं २०२८ समशङ्कु अप्रा पद्धचत्वारिंशदधिकाटशती ८४५ । अनेनानयनेनाप्ययं समशङ्कुरागच्छति । तद्यथा । तत्र देशेऽक्षज्या द्विदन्तेन्दुमिताष्टादशविकलाधिका १३२२ ॥ १८ । पलप्रभा ५ व्यासदलेन निघ्नो १७१९० दिग्ज्योद्धृता । अत्र दिग्ज्या पूर्णम् ० । अनेनोद्धृता जातः खहरः १७:५° एतां पलभां प्रकल्प्याक्षज्या किल साध्या । अस्या वर्गाद्द्वादशवर्गेण सदृशच्छेदेन शून्यीभूतेन