पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/240

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९५
त्रिप्रश्नाधिकारः

छायासाधनम् । मध्याही नताभावान्नतोत्क्रमज्याभावः । सूर्योदये नतोक्रमज्यादिनाद्धान्त्या तुल्या स्यादत उत्तं नितो कृष्मज्याशर इत्यनेन हीनान्त्यक वाभिमतान्त्यकृा स्यादिति' । अत्रान्त्याशब्देन दिनाद्धन्त्यिा गृह्यते । एवं दिनार्द्धहतेरिष्ठहृत्यग्रादुरि खण्डं फलमित्युच्यते । एवं दिनार्द्धशङ्कोरिष्टशङ्क्वग्रादुपरि खण्डमप्यूर्ध्वसंज्ञं भवति । एतेषां संस्थानं भाष्ये स्पष्ट्र। चरज्यान्त्य्सूत्रशरास्त्रिज्यावृत्तीया:। 'कुज्याहुतिकलाफलानि द्युज्यावृतीयानि । अन्त्याहृत्योरिवैषा न स्थानकृतो भेदः किन्त्वेक कृत एव भेदः ।। ५३-५५ ।।

 इदानी प्रकारान्तरेणेष्टयष्टिमाह-

 उद्वृत्तशङ्कोरषि सूत्रनिघ्नाच्चरज्ययातं यदि वेष्टयष्टिः ।

 ΕΤο HΤο -स्पष्टार्थम्

 अत्रोपपत्तिः । यदि चरज्यया उन्मण्डलशङ्कुर्यष्टिस्तदा सूत्राख्यस्य किमिति त्रैराशिकेन । वा यष्टिरित्युपपन्नम् ॥५५॥

 इवानीमिष्टान्त्यकाहृत्योरानयनमाह-

रवावुदग्दक्षिणगोलयुते स्रुत्र' युतोनं चर्जीवया स्यात् ॥५६॥
इष्टान्त्यकैवं क्षितिजीवया च कला युतोना हृतिरिष्टकाले ।

 वा० भा०-यत् पूर्वानीत सूत्र तदुत्तरगोले चरज्यया युक्त दक्षिणे हीनमिटान्त्यकासंज्ञ भवति। एवमनेनैव गोलक्रमेण कुज्यया युतहीना सती कलेटहतिसंज्ञा भवति।

 अत्रोपपत्तिः । अत्रोन्मण्डलादुपरितनकालस्याहोरात्रवृत्ते या ज्या सा कला । अधस्तनस्य या ज्या सा कुज्या । तयोरुत्तरगोले योगे कृतेऽर्कबिम्बाढुदयास्तसूत्रपर्यन्तमक्षकर्णगत्या तिर्यक्सूत्रं भवति । सेष्टहृतिः । सैव त्रिज्यापरिणता सतीष्टान्त्यका भवति । अतश्चरज्यया सूत्रं युतं कृतम् । दक्षिणगोले तून्मण्डलस्य क्षितिजादधः स्थितत्वात् कला कुज्यया हीना कार्या सूत्रं चरज्ययेत्युपपन्नम् ॥५५-५६६॥

 इदानीमिष्टशङ्कुमाह—

 युतोनितोन्मण्डलशङ्कुनैवमिष्टाख्ययष्टिर्भवतीष्टशङ्कुः ॥५७॥

 वा० भा०-एवमुतरगोले,उन्मण्डलशडकुना युता दक्षिणे रहितेटयटिरिष्टशड कुर्भवति।

 अत्रोपपत्तिः ॥ या पूर्वमानीतेष्टयष्टिः सोन्मण्डलशड्क्वग्रसमसूत्रादुपयूंप्र्वरूपा । सा यावदुत्तरगोल उन्मण्डलशङकुना युता दक्षिणे रहिता क्रियते तावदर्कबिम्बादवलम्बो भूपर्यन्तो भवति । स एवेष्ट शङ्कुरित्युपपन्नम् ॥५७॥

 उन्नतकालाच्छङकुमानीयेदानी नतकालादाह-
नतोत्क्रमज्या शर इत्यनेन हीनान्त्यका वाभिमतान्त्यका स्यात् ।