पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/243

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१९८
सिद्धान्तशिरोमणौ ग्रहगणिते

वृत्तस्थत्वमेव साजात्यम् । अन्यथा मासान्तरस्थकुज्याया अपीष्टहतेः साजात्यं स्यात् । यस्मिन् काले छाया साध्यते तत्काले यावती क्रान्तिस्तस्याः यदहोरात्रं तस्योन्मण्डलसम्पाते उन्मण्डलशङ्कः याम्योत्तरवृत्तसम्पाते दिनार्द्धशङ्कुरित्यादिबोध्यम्॥ एवं छायातॊ दिनगतशेषज्ञाने स्थूलदृष्टद्या काल ज्ञात्वा क्रान्तिचरादिक साध्यम्। ततो दिनाद्धन्त्यासाधनमिति शोभनम् ॥ ६२ ।।

 इदानी विशेषमाह—

यत्र क्वचिच्छुद्धिविधौ यदेह शोध्यं न शुध्येद्विपरीतशुद्धया ।
विधिस्तदा प्रोक्तवदेव किन्तु योगे वियोगः सुधिया विधेयः' ॥६३॥

 वा० भा०-अथ यत्र क्वचिच्छुद्धिविधौ कर्तव्ये शोध्यं यदि न शुष्यति तदा शोध्यादि तरराशि विशोध्य शेषविधिः कर्तव्यः । किन्तु व्यस्तशोधने कृते यदा योगविधिरुत्पद्यते तदा वियोगविधिः कार्यः ।

 अत्रोपपतिः । अत्राथोन्नताढूनयुताच्चरेणेत्यादौ यदोत्तरगोल उन्नतकालाच्चारं न शुध्यति तदा चरादुन्नतं विशोध्य शेषस्य ज्योन्मण्डलादधश्र्वरज्याखण्डं सूत्रसंज्ञं भवति ॥ तस्य यदा कला क्रियते तदोन्मण्डलादधः कुज्याखण्डं भवति । कलाया यदेष्टयष्टिः क्रियते तदोन्मण्डलशङ्कोरूध्ट खण्ड भवति। अथ रवावुदग्दक्षिणगोलयात इत्यादी सूत्र किल चरज्ययायुक्त कायम् । तदिह न कायम् । किन्तून्मण्डलादधोमुखं यत् सूत्रमागतं तच्चरज्याया विशोष्यम् ॥ शेषमिष्टान्त्या भवति । एवं तदा या कलोन्मण्डलादधोमुख्यागता सा कुज्याया विशोधिता शेषं कुज्याधस्तनखण्डमिष्टहृतिः । एवमुन्मण्डलादधोमुखी येष्टयष्टिरागता सोन्मण्डलशङ्कोः शोध्या शेषमिष्टशङ्कुर्भवतीति युक्तमुक्तम् ॥ ६३ ॥

 इदानीमन्यं विशेषमाह—

बाणेन्दु १५ नाङ्यूननतात्र क्रमज्या त्रिज्यान्विता सैव नतोत्क्रमज्या ।
उद्वृत्तशङ्कुस्तु न याम्यगोले दृश्योऽनुपातार्थमयं प्रसाध्यः ॥६४॥

 वा० भा०-यदा नत पव्चदशघटिकाभ्योऽधिक भवति तदोत्क्रमज्याकरणे नतात्। पञ्च वशघटिका विशोष्य शेषस्य क्रमजीवा त्रिज्यया युता सत्युत्क्रमज्या स्यादित्यवगन्तव्यम् । तथा। वक्षिणगोले क्षितिजादधः स्थितत्वादुन्मण्डशङ्कुरदृश्यस्तथाप्ययमन्येषामनुपातार्थं साध्यः ।


१. अत्र लल्ल: ।

अल्पीयांसो भवेयुः सवितृचरदलादिष्टकालासवधेतू
सौम्ये गोले तदानी चरदलसमयात् पातयित्वेष्टकालम् ।
कार्या शेषस्य जीवा चरशकलगुणस्तद्विहीनोऽन्त्यका स्यातू
त्रिज्याभक्ताथ सैव द्युगुणविगुणिता छेद इष्ठः प्रदिष्टः ।

शि० धी० ग्र० गा० त्रि० २९ ३लोक ॥