अत्रोपपत्तिः । उत्क्रमज्या हि बाणरूपा भवति यदा नतं पञ्चदशघटिकाधिकं तदा पञ्चदशघटिकानामुत्क्रमज्या बाणरूपा त्रिज्यातुल्या भवति । अथ पञ्चदशघटिकाधिको यः कालस्तस्य क्रमज्योध्र्वाधोरूपा भवति । सा यावत् त्रिज्यया युता क्रियते तावद्बाणरूपोत्क्रमज्या भवति । अत्र गोलेऽहोरात्रवृत्ते याम्योत्तरवृत्तात् पूर्वतो नतघटिकाग्रे सूत्रस्यैकमग्रं बद्ध्वा द्वितीयमग्रं पश्चिमतश्व नतघटिकाग्रे निबध्यते। तस्य सूत्रस्य याम्योत्तराहोरात्रवृत्तसंपातस्य च यदन्तरं तद्बाणरूपम् ॥ एवं तामुत्क्रमज्यां प्रदर्शयेत् ॥६४॥
इदानीमन्यं विशेषमाह-
मार्त्तण्डः सममण्डलं प्रविशति स्वल्पेऽपमे स्वात् पलात् |
वा० भा०-मार्तण्डस्य यावदुत्तरा क्रान्तिः पलाधिका भवति तावत् सममण्डलादुत्तरस्थस्यैव तस्य दिनार्ध भवति । यावत् पलादूना तावद्दक्षिणस्थस्यैव । अतस्तत्र सममण्डलं प्रविशति । एवं दक्षिणगोलेऽपि पलादूनायां क्रान्तौ रविः सममण्डलं प्रविशति ॥ किन्तु तत्र क्षितिजादधःस्थितत्वात् प्रविशन् न दृश्यते । उत्तरगोले तु दृश्यते ॥ अतस्तत्रैव तस्य भा श्राव्या कथनीया । तथाऽप्रासेऽपि समाख्यमण्डलमिने यः शङ्करुत्पद्यत इति । यत्र किल विशतिर्भागाः पलस्तत्र मिथुनान्तस्थो रविः सममण्डलादुत्तरतो भागचतुष्टयेन दिनार्धे भवति ॥ अतस्तस्य सममण्डलमप्रासस्यापि यो गणितेन समशङ्कुरुत्पद्यते तथा तद्धृतिश्च तत् कथमिदं द्वयं वन्ध्यासुतवत् । तदपि प्रदश्र्यते । उदयास्तसूत्रमध्याढुतिसूत्रगत्या सूत्रमेक प्रसार्य द्वितीयं गोलमध्यात् खस्वस्तिकगामि च । तयोः सूत्रयोर्यो गोलादूर्ध्वभागे संपातस्तस्मादध ऊर्ध्वसूत्रं यत्प्रमार्णं तत्प्रमाणस्तदा समशङ्कुरुत्पद्यते । यत्तु तिर्यक्सूत्रप्रमाणं तत्प्रमाणा तद्धृतिरुत्पद्यते । तत्राप्यग्रा भुजरूपिणी । इदमक्षक्षेत्रम् । अतोऽन्येषामनुपातार्थमिदं न दुष्यति । दक्षिणगोलेऽदृश्यो यः समशङ्कुः सोऽप्यनुपातार्थं न दुष्यतीत्यपि शब्दार्थः ॥६' ॥
इदानीं छायातः कालज्ञानमाह-
उद्वृत्तकर्णाचरशिञ्जिनीध्नाद्दिनार्धकर्णादथवान्त्यकाध्नात् । |
वा० भा०–उन्मण्डलकर्णाच्चरज्पया गुणितादथवा मध्याह्मकर्णादन्त्यया गुणितादिष्ट कणन्न भक्ताद्यत् फलं लभ्यते सेष्टान्त्या भवति । उभयत्र तुल्येत्यर्थः । अथ प्रकारान्तरेणेष्टान्त्याः