हीन सत् क्षितिजादुन्नतकालो भवतीत्युपपन्नम्। यदा तूतरगोले चरज्या न शुध्यति। तदा व्यस्तविशोधने कृत उन्मण्डलादधोमुखी ज्या सूत्रसंज्ञा भवति । अतस्तस्या धनुषि चराच्छोधिते सति क्षितिजादुनतकालो भवतीत्युपपन्नम् ॥६&।
इदानीं छायातोऽकनियनमाह-
दिनार्धद्युतेख्रिज्यकाघ्न्या हुतायाः स्वकणेंन चापांशकाः स्युर्नतांशाः । |
वा० भा०-मध्याहुच्छ,या त्रिज्यया गुण्या । मध्याहृच्छायाकणेंन भाज्या । यत् फलं लभ्यते तस्य चापांशा नतांशा भवन्ति । यद्युत्तरं छायाग्रं तदा दक्षिणाः । यदि दक्षिणं तदोत्तराः । एवं दिनार्धे ये नतांशा भवन्ति ते यदि दक्षिणास्तदा पलांशैवियुक्ताः ॥ यद्युत्तरास्तदा पलांशैर्युताः सन्तः क्रान्त्यंशा भवन्ति । ततः क्रान्तितो वैपरीत्येन रविर्भवतीति गोले वक्ष्ये । अन्यच्च बहु गोले वक्ष्ये ।
अत्रोपपतिः । यदि मध्यच्छायाकणेंन मध्याहुच्छायातुल्यो भुजो लभ्यते। तदा त्रिज्या कर्णन क इति । यदनेन त्रैराशिकेन फलमुत्पद्यते सा याम्योत्तरवृत्त खमध्याकान्तरांशानां जीवा । अतस्तस्या धनुर्नतांशाः । ते च छायातो दिग्वैपरीत्येन भवन्तीति प्रसिद्धम् ॥ यदि ते दक्षिणा जातास्तदा तेभ्योऽक्षांशाः शोध्याः । शेषं विषुवन्मण्डलाद्दक्षिणतः क्रान्त्यंशा भवन्ति । यदि तेभ्यः पलांशा न शुध्यन्ति तदा पलांशेभ्यो नतांशान् विशोध्य शेषं विषुवन्मण्डलादुत्तराः क्रान्त्यंशा ज्ञेयाः । यद्युत्तरा नतांशास्तदा पलांशैर्युताः सन्ति उत्तराः क्रान्त्यंशा भवन्तीति सुधिया ज्ञातव्यम् ।।७०-७० ।।
इदनों क्रान्तिज्ञाने सति पलज्ञानमाह-
नतांशापमांशान्तरं तुल्यदिक्त्वे युतिर्भिन्नदिक्त्वे पलांशा भवेयुः ॥७१॥ |
वा० भा०-एवं छायातो ये नतांशा ज्ञातास्तेषामपमांशानां च दिक्साम्येऽन्तरं दिग्भेदे योगः पलो भवति ।
पूर्वोपपत्तिकथनर्वपरीत्येनास्योपपत्तिः कथिता भवति ।।७१।। |
वा० वा०-पलश्रुतिध्नस्त्रिगुणस्य इति। यदीष्टकर्ण द्वादशकोटिस्तदा त्रिज्याकणं का कोटिरिति जातः शङ्कः । पुनर्द्वादशकोटौ पल:कर्णस्तदास्मिन् शङ्कौ कः कर्णं इति जाता हृतिः ।
ततो द्युज्या स्थाने त्रिज्या हृतिस्थाने केति जातेष्टान्त्या 'तद्रहिता दिनाद्वन्त्या नतोक्रमञ्ज्या तस्या उत्क्रमधनुषा नतासव इति किंचित्रम् । दिनाद्धछायातः क्रान्तिज्याज्ञानं क्रान्तिज्याज्ञानेऽक्षज्याज्ञानं भाष्ये स्पष्ट नतांशसाधनप्रकारवैप। रीत्येन ॥ ६७-७१ ॥
१- त इहिता इति क ख ग पु० ।
सि०-२६