पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/247

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०२
सिद्धान्तशिरोमणौ ग्रहगणिते

 इदानों छायातो भुजज्ञानमाह-

त्रिभज्याहुताकाँग्रका कर्णनिघ्नी भवेत् कर्णवृत्ताग्रका व्यस्तगोला ।
पलच्छायया सौम्यया संस्कृता स्याडूजोऽथोत्तरे भाग्रके सौम्यगोले ॥७२॥

भुजः कर्णवृत्ताग्रयाढयोऽन्यदासी वियुक्तोऽक्षूभा स्यात् तया वा वियुक्तः ।
भुजः सौम्यभाग्रेऽन्यदाढ्यस्त्रिभज्याहतः कर्णभक्तोऽग्रका चापमोऽतः ॥७३॥

 वा० भा०-अर्कस्याग्रेटच्छायाकणेंन गुण्या त्रिभज्यया भाज्या फलं कर्णवृत्ताग्रा स्यातू । सा च व्यस्तगोला । उत्तरगोले याम्या दक्षिणगोले सौम्या । सा पलाच्छायया सौम्यया संस्कर्तव्या । पलच्छाया सदैव सौम्या ज्ञेया । तस्याः कर्णवृत्ताग्रायाश्चीतरगोलेऽन्तरं याम्ये योगो भुजः स्यात् । भुजो नाम छायाग्रपूर्वापररेखयोर्याम्योत्तरमन्तरम् ।

 अथ भुजदर्शने कर्णवृत्ताग्रया पलभाज्ञानमाह। अथोत्तरे भाग्रक इति। यदोत्तरगोले सममण्डलाद्दक्षिणगते रवावुत्तरं भाग्रं भवति तदोत्तरभुजः कर्णवृत्ताग्रया युतः सन् पलभा भवति । अन्यदा तु भुजस्य कर्णवृत्ताग्रायाश्चान्तरं पलभा ॥

 अथ दृछे भुजे पलभया कर्णवृत्ताग्राज्ञानमाह । तया वा वियुक्त इत्यादि। यदा सौम्यो भुजस्तदा तस्याक्षभायाश्चान्तरमन्यथा योगः कर्णवृत्त्ाग्रा भवति । सा त्रिज्यागुणा कर्णभक्ताग्रा स्यात् । अग्रा पलक्षेत्रकोटिगुणिता तत्कर्णभक्ता क्रान्तिज्या स्यात् ।

 अत्रोपपत्तिः । समायां भूमौ त्रिज्यावृत्तं विलिख्य दिगङ्कितं च कृत्वा तत्र पूर्वतः पश्चिमतश्च यथादिशमग्रां दत्त्वा तद्द्वग्रयोरुदयास्तसूत्ररेखां कुर्यात् ॥ अथोत्तरगोल इष्टकाले सममण्डलाडुत्तरतोऽहोरात्रवृत्तस्थाद्रवेरधोऽवलम्बस्तदा किल शङ्कुः ॥ शङ्कुमूलस्य प्राच्यपरसूत्रेण सहान्तरं स शङ्कोरुत्तरो भुजः ॥ उदयास्तसूत्रेण सहान्तरं तच्छङ्कुतलम् । अतः शङ्कुतलं यावदग्राया विशोध्यते तावद्भुजोऽवशिष्यते । यावद्भुजो विशोध्यते तावच्छङ्कुतलमवशिष्यते । शङ्कुतलभुजयोर्योगोऽग्रा भवति ॥ यदोत्ारगोले समवृत्तद्दक्षिणतः शङ्कुस्तदा शङ्कुतलादग्रायां विशोधितायां भुजोऽवशिष्यते । भुजे विशोधितेऽग्रा। भुजाग्रयोयोंगस्तदा शङ्कुतल भवतीयत्र योगवियोगे कि वासनावैचित्र्यम्। इर्द महाशङ्कोस्त्रिज्यातुल्ये कर्णे दशितम् । महाशङ्कुरनियतः । इदानीं नियतस्य द्वादशाङ्गुलशङ्घोरुच्यते । महाशङ्कुद्वदशभिर्भाज्यः । यल्लब्धं तेन महाशङ्कुर्यावच्छिद्यते तावदू द्वादश लभ्यन्ते । यावत् त्रिज्या छिद्यते तावच्छायाकिर्णी लभ्यते । यावदग्रा छिद्यते तावच्छायाकर्णवृत्ताग्रा स्यातू । यावच्छङ्कुतलं छिद्यते तावत् पलभा स्यात् । यावद्भुजश्च्छद्यते तावद्भुजो लभ्यते । अथवा त्रैराशिकेन सर्वम्। यदि त्रिज्यावृच इदमग्रादिक लक्ष्मते तदा कर्णवृते किमिति। फल तदेव । अतश्छायाकर्णवृत्ताग्रापलभयोर्योगवियोगाद्भुजः । ततः पलभा ततश्चाग्रेत्युपपन्नम् ॥ किन्तु शङ्कुप्राच्यपरयोर्यावदन्तरं तावदेव छायाग्रप्राच्यपरयोः स्यात्। किन्तु दिग्वैपरीत्येन । अतस्तेन कर्णवृक्शाप्रा व्यस्तगोलेत्युपपन्नम् ॥