पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/248

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०३
त्रिप्रश्नाधिकारंः

 अथ मन्दावबोधार्थमुदाहरणम् । यत्र देशे पञ्चाङ्गुला विषुवती तत्रोत्तरगोले यदा पञ्चांशोनैः ससदशभिरधिका नवशत्यग्रा ९१६॥४८॥ तत्र दिन इष्टच्छायाकर्णस्त्रशदङ्गुलः ३० पञ्चदशाङ्गुलो वा । तत्र पृथक्-पृथक् भुजं ब्रूहि भुजात् पलभां ताभ्यां चाग्रामिति । त्रिभज्याहृतार्काप्रकेत्याविना त्रिंशदङ्गुले कणें ज्ञाता कर्णवृत्ताग्रा याम्या । इयं पलच्छायया सौम्यया ५ वियुक्ता जातो याम्यो भुज: ३। अथ भुजे ज्ञाते तेन रहिता कर्णवृत्ताग्रा जाता पलभा ५ ॥ पलभाभुजयोज्ञतियोयोंगे जाता कर्णवृत्ताग्रा ८ ॥ इयं त्रिज्यागुणा कर्णभक्ता जाताग्रा ९१६।। ४८ । एवं पञ्चदशाङ्गुले कर्णे कर्णवृत्ताग्रा चतुरङ्गुला ४ । सौम्यो भुजोऽङ्गुलम् १ ।। पलभा सैव ५ ॥

 इदानीं प्रश्नाः सोत्तराः ॥ तत्र छायाकर्णो भुजेऽर्को च ज्ञातेऽथवाकज्ञाने भुजद्वये कर्णद्वये च ज्ञाते यः पलभां वेत्ति तस्योत्कर्षमाह ॥७२-७३॥

 वा० वा०-छायाकर्णवृत्ते भुजसाधनं ।  त्रिभज्याहृतार्काग्रका कर्णीनिघ्नी भवेत्कर्णवृत्ताग्रकाव्यस्तगोलेति ।

 च स्पष्टम् । कथं च छायाकर्णवृत्ते पलभैव शङ्कतलमित्यत्र ग्रहुलाघवतिथिचिन्तामणिद्वयविवाहवृन्दावनटीकामुहूर्ततत्वटीकालीलावतीटोकात्रिप्रश्नादिपातान्तशिरोमणिटिप्पण सुधीरञ्जनतर्जनीययन्त्रपातसारणीशरसारणीश्राद्धविधिश्लोकवृत्तरत्नाकरटीकादिग्रन्थप्रणेतृभिरस्मत् पितामहगुरुभिः सकलागमाचार्यैर्गणेशदैवज्ञैरुक्तम् ।

स्यादक्र्काङ्कलशङ्कनात्र पलभा दोश्चेन्महाशङ्कना
भीटेनैव तु किं फलें नूरतल तच्चेन्महाशङ्कना।
स्यादर्काङ्गुलशङ्कुना किमिति वै नाशे गुणच्छेदयोः ।
साम्यात्तु स्तलमक्षभैव हि भुजः कर्णाग्रया संस्कृतः ॥ इति ॥
एकस्मादपि भाग्रत इत्यनेन दिग्ज्ञानमुक्तम् ॥ ७२-७३ ॥

दृष्टवेष्टभां योऽत्र दिगर्कवेदी छायाद्वयं वा प्रविलोक्य दिग्ज्ञः ।
vN FN वेत्यक्षभामुद्धतदैववेदिदुर्दर्पसर्पप्रशमे स ताच्त्र्यः ॥७४॥

 वा० भा०-स्पष्टार्थम् ।।७४।।

 वा० वा०-छायाकणें ज्ञाते तद्वृतीयभुजे च ज्ञाते पलभातः क्रान्तिज्ञानमुक्तम्। क्रान्तितः पलभाज्ञानं छायाकर्णलघुवृत्तभुजाभ्यामप्युक्त विलोमविधिना। अधुना छायाकर्णे भुजे क्रान्तौ च ज्ञानार्थं 'यः पलभां वेत्ति स उत्कृष्टः । यश्च क्रान्तिज्याया अज्ञानेऽपि भाद्वयस्य भुजौ छायाकर्णौ च ज्ञात्वा पलभां वेत्ति सोऽप्युत्कृष्ट इत्याह--दृष्ट्वेष्टभामिति । अत्र भुजज्ञाने दिग्वेदी क्रान्तिज्याज्ञानेऽर्कवेदी फलभाज्ञाने देशवेदी चेति स्पष्टम् ॥ ७४ ॥


१. ज्ञातार्या इति क ख पु० पाठः ।।