इदानी प्रश्नमाह—
भाकणें खगुणाडुले ३० किल सखे याम्यो भुजस्त्र्यडुलो-
ऽन्यस्मिन् पञ्चदशाङ्गुले १५ ऽङ्गुलमुदग्बाहुश्च यत्र क्षितः ।
अक्षाभां वद तत्र षष्ट्कृतगर्जे ८४६ यंद्वापमज्यां समां
दृष्ट्वेष्टामनयोः श्रुतिं च सभुजां दाग्ब्रूहि मेऽक्षप्रभाम् ॥७५॥।।
वा० भा०-स्पष्टार्थ प्रश्नद्वयम् ॥७५॥
प्रथमप्रश्नस्योत्तरमाह—
भाद्वयस्य भुजयोः समाशयोव्र्यस्तकर्णहतयोर्यदन्तरम् ।
ऐक्यमन्यककुभोः पलप्रभा जायते श्रुतिवियोगभाजितम् ॥७६॥
- वा० भा०—अत्रैको बाहुर्याम्यस्त्रयम् ३ । तत्र कर्णस्त्रिशत् ३० । अन्यः सौम्यो रूपम्
१ । तत्र कर्णः पञ्चदश १५ ॥ अनयोर्भुजयोरन्यकर्णहतयोभिन्नदिशोर्योगः ७५ । अयं कर्णान्तरेण भक्तो जाता पलभा ५ । एकदिशोस्त्वन्तरम् ।
- अस्योपपतिस्तावदुच्यते । सा चाव्यक्तक्रियया । अत्रपलभाप्रमाणं यावत्तावत् १ ॥
इयं दक्षिणेन भुजेन युता जाता कर्णवृत्ताग्रा या १ रू ३ । इयं त्रिज्यागुणा कर्णभक्ता तथा या त्रि १ त्रि ३ ३o। एवमन्यभुजादपि पलभा या १ ॥ इयमुक्तरेण भुजेनोना कर्णवृत्ताग्रा भवति या १ रू 1 । इयं त्रिज्यागुणा कर्णभक्ता जाताग्रा या. त्रि १ त्रि १ अनयोरन्योन्यच्छेद गुणयोश्छेदगमे समशोधनार्थं न्यासः अनयोस्त्रिज्ययापवर्ते कृत एकाव्यक्त शोधयेदन्यपक्षादित्यादिना यावत्।ावच्छेष कर्णान्तरतुल्यं हरो जातः १५ । रूपशेषमन्योकर्णाहत- भुजयोर्योगो जातो भाज्यः ७५ । अत उपपन्नं भाद्वयस्य भुजयोः समाशयोरित्यादि ।
अथ द्वितीयः प्रश्नः अथवा षट्कृतगजै ८४६ स्तुल्यां क्रान्तिज्यां दृष्ट्वा तयोरेकं कर्णं भुजं च दृष्ट्वा पलभां बूहीत्यस्योत्रमाह॥७६॥
वा०वा०-भाकर्ण खगुणाङ्गल इति। प्रथमप्रश्नस्योतरं भाद्वयस्थभुजयोरिति। अत्रोपपत्तिर्गणेशदैवज्ञैव्यक्तेनैवोक्ता । छायाकर्णवृत्तेऽयं भुजस्तदा त्रिज्यावृत्ते क इति छायाकर्णाभ्यां स्वस्वभुजौ त्रिज्यावृतीयौ कृत्वा भुजयोरेकान्यदिशोरन्तरमैक्यं रवि- क्षणम् । ‘शङ्क्वन्तरहृत्पलभेति' यन्त्राध्यायोक्त्या पलभा ज्ञेया । तत्र शङ्क्वन्तरज्ञानं छायाकर्ण द्वादशकोटिस्तदा त्रिज्याकणें का कोटिरिति शङ्कूसाध्यौ। तयोरन्तरन्तु छायाकर्णान्तरं त्रिज्याद्वादशगुणं छायाकणंघातभक्तमिति । त्रिज्यावृत्तीयभुजान्तरमपि व्यस्तकर्णहतयोः छायाकर्णवृत्तीयभुजयोरन्तरं त्रिज्यागुणं छायाकर्णघातभक्तं यत्तत्तु-