पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/250

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०५
वत्रिप्रश्नाधिकारः

ल्यम् । इदं द्वादशगुणं पूर्वोक्तशङ्क्वन्तरेण यावद्भज्यते छेदं लवं च परिवत्र्येत्यनेन त्रिज्यातुल्ययोः छाया कर्णघाततुल्ययोर्द्वादशतुल्ययोर्गुणहरयोर्नाशे सर्वमुत्पद्यते। त्रिज्यावृत्तीयभुजयोरन्तरमप्रैक्ये शङ्कतलान्तरमेव स्यात्।

  ततः शङ्क्वन्तरकोटौ शङ्कतलान्तरं भुजस्तदा द्वादशकोटी को भुज इति पलभैव भवति ।

  यद्वा पमज्यां समां दृष्ट्वेष्टामनयोः श्रुति च स भुजां द्राग्ब्रूहिमेऽक्षप्रभाम् । क्रान्तिज्याकर्णवधादित्यनेन प्रश्नभङ्गः कृतः ।

  अस्योपपत्तिः । पलभाप्रमाणं यावत्प्रकल्प्य कर्णवृत्ताग्रे आनीय समशोधनेन मध्यमाहरणबीजोक्त्या भाष्ये स्पष्टा । यद्वा क्रान्तिज्ययोर्वा त्रिज्यावृतीयाग्रयोर्वा साम्यकरणादुपपत्तिभेदेन ‘क्रान्तिज्याकर्णवधादिति’ सूत्रोक्तं सर्वमुत्पद्यते । ज्ञानाधि- राजेन सिद्धान्तसुन्दरे छायाकर्णस्थाने महाशङ्क गृहीत्वा क्रान्तिज्यानरयोरित्युक्तम्। एवं प्रष्टव्यपुरपलज्यां क्रान्तिज्यां प्रकल्प्य भास्करीयप्रश्नाध्यायोक्त्या ज्ञाताक्षांशपत्तन- पलकणेंन तां क्रान्तिज्यां सजूण्य द्वादशभिविभज्याग्रेति कल्पिता । एवमग्रा दिग्ज्यां च ज्ञात्वा ज्ञाताक्षांशादेकस्मात् पत्तनादमुकदिशि ज्ञाताक्षांशं यदन्यत्पत्तनं तत् किय- द्योजनैरिति ज्ञानार्थमपसारयोजनज्यामेव दृग्ज्यां प्रकल्प्य दृग्ज्याप्रमाणं यावत्तावत्प्र- कल्प्य च ‘*व्यासार्द्धवर्गः पलभाकृतिघ्नः' इति सूत्रेणाभीष्टदिक्छायाकर्णसाधनमिवा- व्यक्तयुक्त्या दृग्ज्याज्ञानार्थ सूत्र कृतं ज्ञानाधिराजेन । एकानयनेन छायानामानयन समकोणाद्याश्रितानां भास्करेणैव कृतम् । तत एव ज्ञानाधिराजेन कृतं न किञ्चिदपूर्वं कृतम् । ‘अज्ञातपत्तनपलज्यकया विनिघ्नीविज्ञातपत्तनपलश्रुतिरर्कभक्ता । अग्राभवेदिह, इत्यग्रांतो 'व्यासाद्धवर्ग: पलभाकृतिघ्नो दिग्ज्याकृतिद्वादशवर्गनिघ्नीत्यनेन' छायाकर्ना साध्यः । ततोऽनुपातेन छायाकर्णेन छाया लभ्यते तदा त्रिज्यया किमित्यपसारयोजन- लवज्या भवति ।

 तस्याश्चापमपसारयोजनलवाः भवन्ति । तेभ्यो योजनसङ्खया भाँशैर्गुणिता स्वपरिधिविहृता भवन्त्यंशाः भूमौ कक्षायां वा भागेभ्यो योजनानि च व्यस्तमित्यपसारयोजनानि ज्ञेयानि । अर्काग्रयाऽभिमतदिशि छायाकर्णं इति प्रागुक्तमेव ।

दिग्ज्या पलभाक्षुण्णो त्रिज्यार्कहते च बाहुकोटिज्ये।
अपसृतियोजनलवजे तदन्तरं दक्षिणे भागे ।
ऐक्यं सौम्ये [ भूमे ] व्यस्त पादाधिकेऽपसरे।
रविगुणमक्षश्रवसा भक्तं तच्चापमक्षांशाः ।


१. सि० शि० गो० प्रश्ना० २७ श्लो० ।

२. सि० fo Η ο त्रि० YR স্থীo