इत्यत्रचार्यम् एव प्रष्टव्यपुरपलज्यैव क्रान्तिज्येति वक्ष्यते । ईदृशीमग्रामिति च सोपपतिक भाष्ये वक्ष्यते ।
गोदातीरगतात्मतीर्थविषये सत्र्यंशवेदाक्षभे-
भानोभाँहरिसङ्गतस्य हरिदिग्भागाश्रिता बूहि मे ।
पादोनागमिताक्षभापि शिवदिक् काशीकियद्योजनै
रेकेनानयनेन तद्वदसखे वाब्छामि वाराणसीम्।
इत्याद्युदाहरणानि 'व्यासाद्धवर्ग: पलभाकृतिघ्न' इत्यनेनायान्त्येव । अर्थवं पृच्छते सत्र्यंशवेदाक्ष मतो गोदावरी पादोनांगमिताक्षभपुरं रसाकयोजनान्तरस्थं कस्यां दिशीति । तत्रोच्यते । द्वादशकोटौ गोलग्रामाक्षकर्णः कर्णस्तदा प्रष्टव्यपुरपलज्यया क्रान्तिज्यारूपया किमित्यग्रा स्यातू । द्वादशकोटी पलभाभुजोऽपसारयोजनकोटिज्यया किमिति शङ्कतलं भ्रवति । तत्संस्कारतॊ भुजः स्यात् । यद्यपसारयोजनज्यातुल्यया दृग्ज्ययायं भुजेस्तदा त्रिज्यातुल्यदृग्ज्यया किमिति दिग्ज्या स्यात् । तस्याश्चापं दिगंशा इति । भास्करोक्तविलोमेन मयायं प्रकार उक्तो नैतावतायमपूर्वस्तथा ज्ञानाधिराजीय इति कि बहुना। एवं 'क्रान्तिज्याकर्णवधा- दित्यनेन' ।
सिहासनासीनमिनत्वमाप्तं मित्रं विदित्वा ऽद्युतिरुत्तरांशाम् ।
यतोऽभवत्पूर्वनृपप्रभो यस्तस्याशु पुंसो वद यानमानाम् ।।।
इत्युदाहरणानि सिध्यन्ति । स्थानद्वये पलभे आनीय तद्द्वयङ्गुलं ह्रसति
पुष्यति योजनेनेति दक्षिणोत्तरनगारयोरन्तरयोजनानि भवन्ति ॥ ७५-७६ ।
क्रान्तिज्याकर्णवधात् त्रिज्याप्तकृतिर्लघुः स दोः कृत्या ।
हीनोऽब्धिमनु१४४ध्नः स्यादाद्योऽथ परो भुजः कृतेन्द्र १४४ध्नः ॥७७॥
तौ लघुवेदेन्द्रा १४४ न्तरभक्ती परवर्गतो यदाद्याढयात्' ।
मूलं परयुतवियुतं सौम्ये याम्ये भुजे पलभा* ॥ ७८ ॥
१. परवर्गसंयुतादाद्यात् । इति पाठान्तरम् ।
२. अत्र बापूदेवोक्तो विशेषः ।
एवं तदा यदा स्युर्द्वादशवर्गो लघुश्च भुजवर्गः । |